पृष्ठम्:काठकोपनिषत्.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६५ भाष्यद्वयोपेता २।१।८ दिवे दिव ईडयो जागृवाद्भिर्हविष्मद्भिर्मनुष्येभिराग्निः । एतद्वै तत्॥ यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति ॥ तं देवाः सर्वे अर्पितास्तदु नात्योते कश्चन । एतद्वै तत् ॥ ९ ॥ यदेवेह तदमुत्र यदमुत्र तदन्विह । मृत्योः स मृत्यु- माप्नोति य इह नानेव पश्यति ॥ १० ॥ [शांकरभाष्यम्] वन्द्यश्च कर्मिभिर्योगिभिश्चाध्वरे हृदये च जागृवद्भिर्जा- गरणशीलवद्भिरप्रमत्तैरित्येतद्धविष्मद्भिराज्यादिमद्विर्ध्यानभावनावद्भिश्च म- नुष्येभिर्मनुप्यैरग्निरेतद्वै तत्तदेव प्रकृतं ब्रह्म ॥ ८ ॥ किंच---यतश्च यस्मात्प्राणाद्वदेत्यत्तिष्ठति सूर्योऽस्तं निम्लोचनं यत्र य- स्मिन्नेव च प्राणेऽहन्यहनि गच्छति तं प्राणमात्मानं देवा अग्न्यादयोऽ- धिदैवं वागादयश्चाध्यात्मं सर्वे विक्ष्वेऽरा इव रथनाभावर्पिता संप्रवेशिताः स्थितिकाले । सोऽपि ब्रह्नैव । तदेतत्सर्वात्मकं ब्रह्म । तदु नात्येति नातीत्य तदात्मकतां तदन्यत्वं गच्छति कश्चन कश्चिदपि । एतद्वै तत् ॥ ९ ॥ यद्ब्रह्मादिस्थावरान्तेषु वर्तमानं तत्तदुपाधित्वादब्रह्मवदवभासमानं संसा- र्यन्यत्परस्माद्रह्मण इति मा भूत्कस्यचिदाशङ्केतीदमाह--यदेवेह कार्यकारणो- पाधिसमन्वितं संसारधर्मवदवभासमानमविवेकिनां तदेव स्वात्मस्थममुत्र नित्य- विज्ञानघनस्वभावं सर्वसंसारधर्मवर्जितं ब्रह्म । यञ्चामुत्रामुष्मिन्नात्मनि स्थितं तदेवेह नामरूपकार्यकारणोपाधिमनु विभाव्यमानं नान्यत् । तत्रैवं सत्युपाधिस्वभावभेददृष्टिलक्षणयाविद्यया मोहितः सन्य इह ब्रह्मण्यनाना- [ प्रकाशिका ] सुभृतो गर्भ इव निहित इति पूर्वेणान्वयः । उदित्यवधारणे । अहन्यहनि जागरणशीलैरप्रमत्तैः स्तुत्य । आज्यादिहवि:प्रदानप्रवृत्तैर्त्र्क्ष- त्विग्भिः स्तुत्योऽग्नि: । अग्रनेताऽरण्योर्निहित इति योजना । एतदग्निस्वरूपं तत्पूर्वोक्तब्रह्मात्मकामित्यर्थः ॥ ८ ॥ यस्माद्रह्मणः सकाशात्सूर्य उदेति यत्र च लयमेति देवाः सर्वे तस्मि- न्नात्मनि प्रतिष्ठिता इत्यर्थः । तत्सर्वात्मकं ब्रह्म कोऽपि नातिक्रामति छायावदन्तर्यामिणो दुर्लङ्कत्वादिति भावः । उक्तोऽर्थः ॥ ९ ॥ ननु परमात्मनः सर्वात्मत्वं न संभवति । अहमित्यहन्ताश्रयत्वेनानुसं- धीयमानो ह्यात्मा स चाहमिहैवास्मीति देशान्तरव्यावृत्ततयाऽनुसंधीयते तस्य कथं सर्वदेशकालवर्तिसर्वपदार्थात्मभूततत्वमित्याशङ्कयाह-यदेव पर मात्मतत्त्वमत्र लोकेऽहमित्यनुसंधीयमानतयात्मभूतं तदेव लोकान्तरस्थाना-