५९ भाष्यद्वयोपेता १।३।१६ नाचिकेनमुपाख्यानं मृत्युप्रोक्त सनातनम् उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ १६ ॥ य इमं परमं गुह्यं श्रावयेद्रह्मसंसदि । प्रयतः श्राद्रकाल वा तदानन्त्याय कल्पतं तदनन्त्याय कल्पत इति ॥ १७ ॥ इति काठकोपनिषदि प्रथमाध्याये तृतीया वल्ली समाप्ता ॥ ३ ॥ [शांकरभाष्यम्] स्पर्शरूपरसगन्धोपचिता सर्वेन्द्रियविषयभूता तथा शरीरम्। तत्रैकैकगुणापकर्षेण गन्धादीनां सूक्ष्मत्वमहत्त्वविशुद्धत्वानित्यत्वादितारतम्यं दृष्टमबांदिषु यावदाकाशमिति ते गन्धादयः सर्व एव स्थूलत्वाद्विकाराः शब्दान्ता यत्र न सन्ति किमु तस्य सूक्ष्मत्वादिनिरतिशयत्वं वक्तव्यमित्येतद्दर्शयति श्रुति:- अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत् । एतव्द्याख्यातं ब्रह्मव्ययम् । यद्धि शब्दादिमत्तव्घेतीदं त्वशब्दादिमत्वादव्ययं न व्येति न क्षीयते । अत एव च नित्यं यद्धि व्येति तदनित्यमिदं तु न व्येत्यतो नित्यम् । इतश्च नित्यमनाद्यविद्यमान आदिः कारणमम्य तदिदमनादि । यध्घीदिमंत्कार्यत्वादनित्यं कारणे प्रलीयते यथा पृथिव्यादि । इदं तु सर्व- कारणत्वादकार्यमकार्यत्वान्नित्यं न तम्थ कारणमस्ति यस्मिन्प्रलीयते । तथानन्तमविद्यमानोऽन्तः कार्यमम्य तदनन्तम् । यथा कदल्यादेः फलादि कार्योत्पिादनेनाप्यानित्यत्वं दृष्टं न च तथाप्यन्तवत्वं ब्रह्मणोऽतोऽपि नित्यम् । महतो महत्तत्वाद्बुद्याख्यात्परं विलक्षणं नित्यविज्ञप्तिस्वरूप- त्वात्सर्वसाक्षि हि सर्वभूतात्मत्वाद्रह्म । उक्तं ह्येष सर्वेषु भूतेष्वित्यादि । ध्रुवं च कूटस्थं नित्यं न पृथिव्यादिवदापेक्षिकं नित्यत्वम् । तदेवंभूतं ब्रह्मा- त्मानं निचाय्यावगम्य तमात्मानं मृत्यमखान्मृत्यगोचरादविद्याकामकर्म- लक्षणात्प्रमुच्यते वयुज्यते ॥ १५ ॥ प्रस्तुतविज्ञानस्तुत्यर्थमाह श्रुतिः-नाचिकेतं नचिकेतसा प्राप्तं नाचि- केतं मृत्युना प्रोक्तं मृत्यप्रोक्तमिदमाख्यानमुपाख्यानं वल्लीत्रयलक्षणं सना- तनं चिरंतनं वैदिकत्वादुक्त्वा ब्राह्मणेभ्यः श्रुत्वाचार्येभ्यो मेधावी ब्रह्नैव लोको ब्रह्मलोकस्तस्मिन्महीयत आत्मभूत उपास्यो भवतीत्यर्थः ॥ १६ ॥ यः कश्चिदिमं ग्रन्थं परमं प्रकृष्टं गुह्यं गोप्यं श्रावयेद्ग्रग्रन्थतोऽर्थतश्च [प्रकाशिका] मृत्युमुखादिति भीषणात्संसारादित्यर्थः ॥ १६ ॥ नचिकेतसा प्राप्तं नाचिकेतम्। मृत्युप्रोक्तं मृत्योः प्रवक्तृत्वमेव न स्वतन्त्रव-
पृष्ठम्:काठकोपनिषत्.djvu/८१
दिखावट