पृष्ठम्:काठकोपनिषत्.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।३।१४ काठकोपनिषत् ९८ उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत । क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ॥१४॥ अशब्दमस्पर्शमरुपमव्ययं तथारसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तन्मृत्युमुखवात्प्रमुच्यते ॥ १५ ॥ [शांकरभाष्यम्] एवं पुरुष आत्मनि सर्वं प्रविलाप्य नामरूपकर्मत्रयं यन्मिथ्या- ज्ञानविजूम्भितं क्रियाकारकफललक्षणं स्वात्मयाथात्म्यज्ञानेन मरीच्युदकरज्जु कृत्यो भवति यतोऽतस्तद्दर्शनार्थमनाद्यविद्याप्रसुप्ता उत्तिष्ठत हे जन्तव आत्म- ज्ञानाभिमुखा भवत, जाग्रताज्ञाननिद्राया घोररूपायाः सर्वानर्थबीजभूतायाः क्षयं कुरुत । कथम् । प्राप्पयोपगम्य वरान्प्रकृष्टानाचार्यंस्तद्विदस्तदुपदिष्टं सर्वान्तरमात्मानमहमम्मीति निबोधतावगच्छत । न ह्यपेक्षितव्यमिति श्रुति- रनुकम्पयाह मातृवत् । अतिसूक्ष्मबुद्धिविषयत्वाज्ज्ञेयस्य किमिव सूक्ष्मबुद्धि- रित्युच्यते । क्षुरस्य धाराग्रं निशिता तीक्ष्णीकृता दुरत्यया दुःखेनात्ययो यस्याः सा दुरत्यया । यथा सा पद्भ्यां दुर्गमनीया तथा दुर्गं दु:संपाद्य- मित्येतत्पथः पन्थानं तत्त्वज्ञानलक्षणं मार्गं कवयो मेधाविनो वदन्ति । ज्ञेयस्यातिसूक्ष्मत्वात्तद्विषयम्य ज्ञानमार्गम्य दु:संपाद्यत्वं वदन्तीत्यभिप्राय: ॥ १४ ॥ तत्कथमतिसूक्ष्मत्वं ज्ञेयस्येत्युच्यते । स्थूला तावद्वियं मेदिनी शब्द- [ प्रकाशिका ] एवं वशीकरणप्रकारमुपदिश्याधिकारिपुरुषानभिमुखी करोति-आत्मज्ञानाभिमुखा भवताज्ञानानिद्रायाः क्षयं कुरुत । वराञ्श्रेष्ठा- नाचार्यानुपसंगम्यात्मतत्वं निबोधत । यद्वोपासिताद्भगवतो ब्रह्मविद्भ्यो वा देवतापारमार्थ्य च यथावद्वेत्स्यते भवानित्येवंरूपान्वरान्प्राप्य ज्ञेयतात्मतत्वं निबोधत नोदासितव्यमिति भाव । ज्ञानिनस्तदात्मतत्त्वं दुर्गमं पन्थानं वर्ण- यन्ति तत्कस्य हेतोः । यत आत्मतत्त्वं क्षरम्यायधविशेषम्य धाराग्रं- निशिता तीक्ष्णा दुरत्ययाऽनतिक्रमणयिा । तीक्ष्णक्षुराग्रे संचरतः पुंसो यथा कियत्यप्यनवधान आत्मनाशो भवति । एवामिहात्मस्वरूपावगति- दशायां स्वल्पेऽप्यनवधानापराध आत्मनाशो भवतीति भावः ॥ १४ ॥ उपसंहरति---अत्र नित्यमित्येतदशब्दमित्यादौ प्रत्येकं संबध्यते । अशब्दत्वादिवशादेव कालवदव्ययम् । अथवापचयशून्यमित्यर्थः । महत इत्यनेनात्मनि महति नियच्छेदिति पूर्वमन्त्रनिर्दिष्टो जीवो गृह्यते । ध्रुवं स्थिरं निचाय्य दृष्टा दर्शनसमानाकारोपासनेन विषयीकृत्येत्यर्थः ।