पृष्ठम्:काठकोपनिषत्.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२।१।१ काठकोपनिषद् ६० पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराड्पश्याति नान्तरात्मन् । कश्विद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ॥ १ ॥ [शांकरभाष्यम्] ब्राह्मणानां संसदि ब्रह्मसंसदि प्रयतः शुचिर्भूत्वा श्राद्धकाले वा श्रावयेदुञ्जानानां तच्छ्राद्धमस्यानन्त्यायानन्तफलाय कल्पते संपद्यते । द्विर्वचनमध्यायपरिसमाप्त्यर्थम् ॥ १७ ॥ इति काठकोपनिषदि प्रथमाध्याये तृतीयवल्लीभाष्यं समाप्तम् ॥ ३ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्य- श्रीमदाचार्यश्रीशङ्करभगवतः कृतौ काठकोपनिषद्भाष्ये प्रथमोऽध्यायः समाप्त : ॥ १ ॥

एष सर्वेषु भुतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वय्यया बुद्येत्युक्तम् । क: पुनः प्रतिबन्धोऽग्र्याया बुद्धेर्येन तदभावादात्मा न दृश्यत इति तद्दर्शन- कारणप्रदर्शनार्था वल्ल्यारभ्यते । विज्ञाते हि श्रेय:प्रतिबन्धकारणे तदप- नयनाय यत्न आरब्धुं शक्यते नान्यथेति-पराञ्चि परागञ्चन्ति गच्छन्तीति खानि तदुपलक्षितानि श्रोत्रादीनीन्द्रियाणि खानीत्युच्यन्ते । तानि परा- ञ्च्येव शब्दादिविषयप्रकांशनाय प्रवर्तन्ते यस्मादेवंस्वभावकानि तानि व्यतृ- णद्धिंसितवान्हननं कृतवानित्यर्थ । कोऽसौ । स्वयंभूः : परमेश्वरः स्वयमेव स्वतन्त्रो भवति सर्वदा न परतन्त्र इति । तस्मात्पराङ्पराग्रूपाननात्मभूता- ञ्शब्दादीन्पश्यत्युपलभतं उपलव्धा नान्तरात्मन्नान्तरात्मानमित्यर्थः । एवं- स्वभावेऽपि सति लोकस्य कश्चिन्नद्या: प्रतिस्रोत:प्रवर्तनमिव धीरो धीमा- न्विवेकी प्रत्यगात्मानं प्रत्यक्चासावात्मा चेति प्रत्यगात्मा । प्रतीच्येवात्म- शब्दो रूढो लोके नान्यस्मिन् । व्युत्पत्तिपक्षेऽपि तत्रैवात्मशब्दो वर्तते । [प्रकाशिका] क्तृत्वम् अत एव सनातनम् । अपौरुषेयत्वात्प्रवाहरूपेण नित्य मित्यर्थः । स्पष्टोऽर्थः । ब्रह्मसंसदि ब्राह्मणसमाजे । प्रयतः शुद्धः ॥ १७ ॥ तृतीया वली समाप्ता ॥

उत्तिष्ठत जाग्रतेति प्रोत्साहनेऽप्यात्मस्वरूपविमुखान्पश्यञ्शोचति । खानीन्द्रियाणि पराञ्चि पराङञ्चान्ति पराञ्चि परप्रकाशकानि न त्वात्म- प्रकाशकानि । तत्र हेतुं वदञ्शोचति । यतृणत्स्वयंभूः स्वतन्त्र ईश्वर इमानि खानि हिंसितवान् । तृहू हिंसायामिति धातुः । यद्वा धातूनामने- कार्थत्वात् । परार्थप्रकाशकानीन्द्रियाणि सृष्टवानित्यर्थः । पराक्पराच इति यावत् । पराग्रूपाननात्मभूतान्पश्यन्त्युपलभन्ते । अन्तरात्मानं नेत्यर्थः ।