पृष्ठम्:काठकोपनिषत्.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९५७ भाष्यद्वयोपेता १।३।१३ ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मानेि ॥ १३ ॥ [शांकरभाष्यम्]महति प्रथमजे नियच्छेत् । प्रथमजवत्स्वच्छस्वभावकमात्मनो विज्ञानमापादयेदित्यर्थः । तं च महान्तमात्मानं यच्छेच्छान्ते सर्वविशेषप्रत्य- स्तमितरूपेऽविक्रिये सर्वान्तरे सर्वबुद्धिप्रत्ययसाक्षिणि मुख्य आत्मनि ॥१३॥ [प्रकाशिका]नियच्छेदित्यर्थः । बुद्धिं कर्तरि महत्यात्मनि नियच्छेत् ॥ इति तं कर्तारं परस्मिन्ब्रह्मणि सर्वान्तर्यामिणि नियच्छेत्। व्यत्ययेन तदिति नपुंसकलि- ङ्गता । एवंभूतेन रथिना वैष्णवं पदं गन्तव्यमित्यर्थ इति भाषितम् । विवृतं च श्रुतप्रकाशिकायाम् । वाचो मनसि नियमनं मनोऽननुगुणप्रवृत्ति- वैमुख्यापादनम् । मनसो बुद्धौ नियमनं व्यवसायानुगुणप्रवृत्तितापादनम् । बुद्धिश्चार्थेषु हेयताध्यवसायरूपा तस्या बुद्धेरात्मनि नियमनं नाम स एवोपादेयतया साक्षात्कार्य इत्येतदर्थविषयत्वापादनम् । शान्ते स्वत ऊर्मि- षट्कप्रतिभटे शान्त आत्मनि महत आत्मनो जीवस्य नियमनं नाम तच्छे- षताप्रतिपत्तिरिति । आत्मशब्दस्य पुंलिङ्गतच्छब्देन निर्देष्टव्ये छान्दसत्वा- ल्लिङ्गव्यत्यय । ननु भाष्ये ज्ञान आत्मनीति व्यधिकरणे सप्तम्यैौ । आत्मनि वर्तमाने ज्ञाने नियच्छेदित्यर्थ इत्यक्तिरयुक्ता । अव्यावर्तकत्वादात्मनि वर्त- माने इति विशेषणस्याऽऽत्मन्यवर्तमानज्ञानस्यैवाभावात् । न च तद्यच्छेज्ज्ञान इत्येतावत्युक्त आत्मरूपज्ञानभ्रान्तिः स्यात् अतो ज्ञान आत्मनीत्युक्तमिति वक्त्तुं शक्यम् । तथा सति तस्या एव भ्रान्तेः सामानाधिकरण्ययोजनया दृढीकरणप्रसङ्गात् । न ह्यात्मनीत्यनेनात्मभ्रान्तिर्युदस्यते । न चात्मनि वर्तमान इति भाप्यस्यात्मनि विषयविषयिभावलक्षणसंबन्धेन वर्तमान इत्यर्थः । आत्मविषयकज्ञान इति यावत् । अतो व्यावर्तकतया न वैयर्थ्य- दोष इति वाच्यम् । तथा सति ज्ञानमात्मनि महति नियच्छेदित्यस्य वैय- र्थ्यापातात् । तदर्थस्यापि तेनैव सिद्धेरिति चेदुच्यते । अयमभिप्रायो भाष्यकारस्य तद्यच्छेज्ज्ञान आत्मनीत्यत्रात्मनीति विषयसप्तमी तच्चा- त्मविषयकं ज्ञानमात्मोपादेयस्तदतिरिक्ता अर्था हेया इत्येवंरूपम् । तच्चार्थेषु हेयताध्यवसायरूपा बुद्धिरिति श्रुतप्रकाशिकायां व्यक्तम् । अस्य चात्मानात्मविषयकाहेयहेयताध्यवसायरूपस्य ज्ञानस्य महत्यात्मनि नियमनं नाम स एवोपादेयतया साक्षात्कार्य इत्येतदर्थविषयत्वापादनमिति तत्रैव श्रुतप्रकाशिकायामुक्तत्वात् । वाक्यद्वयस्यापि सप्रयोजनतया तदुक्त- वैयर्थ्यशङ्कानवकाश इति ॥ १३ ॥