पृष्ठम्:काठकोपनिषत्.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।३।१३ काठकोपनिषद् ५६ यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि । [शांकरभाष्यम्]दर्शितमिन्द्रियमनोबुद्धिपरत्वेन । यो हि गन्ता सोऽगतमप्रत्य- ग्रपं गच्छत्यनात्मभतं न विपर्ययेण । तथा च श्रति:–"अनध्वगा अध्वसु पारयि- ष्णवः " इत्याद्या । तथा च दर्शयति प्रत्यगात्मत्वं सवेस्य । एष पुरुषः सर्वेषु ब्रह्मादिस्तम्बपर्यन्तेषु भूतेषु गूढः संवृतो दर्शनश्रवणादिकर्माविद्यामाया- छन्नोऽत एवात्मा न प्रकाशत आत्मत्वेन कस्यचित् । अहो अतिगम्भीरा दुरवगाह्या विचित्रा माया चेयं यदयं सर्वो जन्तुः परमार्थतः परमार्थसत त्त्वोऽप्येवं बोध्यमानोऽहं परमात्मेति न गृह्णात्यनात्मानं देहेन्द्रियादिसंघात- मात्मनो दृश्यमानमपि घटादिवदात्मत्वेनाहममुष्य पुत्र इत्यनुच्यमानोऽपि गृह्णाति । नूनं परस्येव मायया मोमुह्यमानः सर्वो लोको बंभ्रमीति । तथा च स्मरणम् --" नाहं प्रकाशः सर्वस्य योगमायासमावृतः ॥ " भ. गी ७।२५ इत्यादि । ननु विरुद्धमिदमच्यते मत्वा धीरो न शोचति न प्रका- शत इति च नैतदेवम् । असंस्कृतबुद्धेरविज्ञेयत्वान्न प्रकाशत इत्युक्तम् । दृश्यते तु संस्कृतयाग्रययाग्रमिवाग्या तयैकाग्रतयोपेतयेत्येतत्सूक्ष्मया सूक्ष्म- वस्तुनिरूपणपरया । कैः । सूक्ष्मदर्शिभिरिन्द्रियेभ्यः परा ह्यर्था इत्यादि- प्रकारेण सूक्ष्मतापारम्पर्यदर्शनेन परं सूक्ष्मं द्रष्टुं शीलं येषां ते सूक्ष्मदर्शि- नस्तैः सूक्ष्मदर्शिभिः पण्डितैरित्येतत् ॥ १२ ॥ तत्प्रतिपत्युपायमाह-यच्छेन्नियच्छेदुपसंहरेत्प्राज्ञो विवेकी । किम् । वाग्वाचम् । वागन्तोपलक्षणार्था सर्वेषामिन्द्रियाणाम् । क । मनसी मनसीति च्छान्दसं दैर्ध्यम् । तच्च मनो यच्छेज्ज्ञाने प्रकाशस्वरूपे बुद्धावात्मनि । बुद्धिर्हि मन आदिकरणान्याप्नोतीत्यात्मा प्रत्यक्तषाम् । ज्ञानं बुद्धिमात्मनि प्रकाशका]रहितया सूक्ष्मार्थविवेचनशक्तया सूक्ष्मदर्शनशीलैर्डश्यत इत्यर्थः ॥ १२ ॥ बाह्याभ्यन्तरकरणव्यापारराहित्यप्रकारमध्यात्मयोगाधिगमेनेति निर्दिष्ट- जीवस्वरूपज्ञानप्रकारं दर्शयति । यच्छेद्वाङ्मनसी प्राज्ञ इत्यादिना । इमं मन्त्रं प्रस्त्युत्येत्थं हि भाष्यकृता हयादिरूपितानामिन्द्रियादीनां वशी- करणप्रकारोऽयमुच्यते वाचं मनसि नियच्छेत् । वाक्पूर्वकाणि कर्मेन्द्रि याणि ज्ञानेन्द्रियाणि च मनसि नियच्छेदित्यर्थः । वाक्शब्दे द्वितीयायाः “सुपां सुलुक्' पा. सू. ७।१।३९ इत्यादिना लुक् । मनसी इति सप्तम्यां छान्दसो दीर्घः । तन्मनो बुद्धौ नियच्छेत् । ज्ञानशब्देनात्र पूर्वोक्ता बुद्धि- रभिधीयते । ज्ञान आत्मनीति व्यधिकरणे सप्तम्यौ आत्मनि वर्तमाने ज्ञाने