पृष्ठम्:काठकोपनिषत्.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।३।९ काठकोपनिषत् ५४ सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ ९ ॥ इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ १० ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥ ११ ॥ [शांकरभाष्यम्] प्रकृष्टं परं स्थानं सतत्त्वमित्येतद्यदसावाप्नोति विद्वान् ॥९॥ अधुना यत्पदं गन्तव्यं तस्येन्द्रियाणि स्थूलान्यारभ्य सूक्ष्मतारतम्यक्र- मेण प्रत्यगात्मतयाधिगमः कर्तव्य इत्येवमर्थमिदमारभ्यते-स्थूलानि ताव- दिन्द्रियाणि तानि यैरंथैरात्मप्रकाशनायारब्धानि तेभ्य इन्द्रियेभ्यः स्वकार्ये- भ्यस्ते परा ह्यर्थाः सूक्ष्मा महान्तश्च प्रत्यगात्मभूताश्च । तेभ्योऽप्यर्थेभ्यश्च पर सूक्ष्मतर महत्प्रत्यगात्मभूत च मन : । मन:शब्दवाच्य मनस आरम्भक- त्वान्मनसोऽपि परा सूक्ष्मतरा महत्तरा प्रत्यगात्मभूता च बुद्धिशब्दवाच्य- मध्यवसायाद्यारम्भकं भूतसूक्ष्मम् । बुद्धेरात्मा सर्वप्राणिबुद्धीनां प्रत्यगात्म- भूतत्वादात्मा महान्सर्वमहत्वादव्यक्त्तद्यत्प्रथमं जातं हैरण्यगर्भ तत्वं बोधा- बोधात्मकं महानात्मा बुद्धेः पर इत्युच्यते ॥ १० ॥ महतोऽपि परं सूक्ष्मतरं प्रत्यगात्मभूतं सर्वमहत्तरं चाव्यक्तं सर्वस्य जगतो बीजभूतमव्याकृतनामरूपसतत्त्वं सर्वकार्यकारणशक्तिसमाहाररूप- मव्यक्ताव्याकृताकाशादिनामवाच्यं परमात्मन्योतप्रोतभावेन समाश्रितं वट- कणिकायामिव वटवृक्षशक्तिः । तस्मादव्यक्तात्परः सूक्ष्मतरः सर्वकारण- कारणत्वात्प्रत्यगात्मत्वाच्च महांश्च, अत एव पुरुषः सर्वपूरणात् । ततोऽ- न्यस्य परस्य प्रसङ्ग निवारयन्नाह-पुरुषान्न परं किंचिदिति । यस्मान्नास्ति पुरुषाच्चिन्मात्रघनात्परं किंचिदपि वस्त्वन्तरं तस्मात्सूक्ष्मत्वमहत्वप्रत्य- गात्मत्वानां सा काष्ठा निष्ठा पर्यवसानम् । अत्र हीन्द्रियेभ्य आरभ्य सूक्ष्म- त्वादिपरिसमाप्तिः । अत एव च गन्तृणां सर्वगतिमतां संसारिणां परा प्रकृष्टा गतिः । “यद्गत्वा न निवर्तन्ते’ भ. गी. १६।६ इति स्मृतेः ॥११॥ [प्रकाशिका ]शाली संसाराध्वपारभूतं परमात्मस्वरूपं प्राप्तोतीत्यर्थः ॥९॥ वशीकार्यत्वाय रथादिरूपितेषु शरीरादिषु यानि येभ्यो वशीकार्यतायां प्रधानानि तान्युच्यन्ते । अस्य मन्त्रद्वयस्यार्थो भगवता भाष्यकृतानुमानि- काधिकरणे ब्र० सू० १।४।१ उक्तः । इत्थं हि तत्र भाष्यम् । तेषु रथादिरूपितशरीरादिषु यानि येभ्यो वशीकार्यतायां प्रधानानि तान्युच्यन्त