पृष्ठम्:काठकोपनिषत्.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३ भाष्यद्वयोपेता १।३।६ यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६ ॥ यस्त्वविज्ञानवान्भवत्यमनस्कः सदा शुचिः । न स तत्पदमाप्नोति ससारं चाधिगच्छति ॥ ७ ॥ यस्तु विज्ञानवान्भवाति समनस्कः सदा शुचिः । स तु तत्पदमाप्नोति यस्माभ्दूयो न जायते ॥ ८ ॥ विज्ञानसारथिर्यस्तु मन:प्रग्रहवान्नरः । [ शांकरभाष्यम्] सारथेरिन्द्रियाण्यक्ष्वस्थानीयान्यवश्यान्यशक्यनिवारणानि दुष्टाश्वा अदान्ताश्वा इवेतरसारथेर्भवन्ति ॥ ५ ॥ यस्तु पुनः पूर्वोक्तविपरीतः सारथिर्भवति विज्ञानवान्प्रगृहीतमनाः समा- हितचित्तः सदा तस्याश्वस्थानीयानीन्द्रियाणि प्रवर्तयितुं निवर्तयितुं वा शक्यानि वश्यानि दान्ताः सदश्वा इवेतरसारथे ॥ ६ ॥ तस्य पूर्वोक्तस्याविज्ञानवतोऽबुद्धिसारथेरिदं फलमाह--यस्त्वविज्ञानवा न्भवति । अमनस्कोऽप्रगृहीतमनस्कः स तत एवाशुचिः सदैव । न स रथी तत्पूर्वोक्तमक्षरं यत्परं पदमाप्तोति तेन साराथिना । न केवलं कैवल्यं नाप्नोति संसारं च जन्ममरणलक्षणमधिगच्छति ॥ ७ ॥ यस्तु द्वितीयो विज्ञानवान्विज्ञानवत्सारथ्युपेतो रथी विद्वानित्येतत् । युक्तमनाः समनस्कः स तत एव सदा शुचिः स तु तत्पदमाप्नोति । यस्मा- दाप्तात्पदादप्रच्युतः सन्भूयः पुनर्न जायते संसारे ॥ ८ ॥ किं तत्पदमित्याह-विज्ञानसारथिर्यस्तु यो विवेकबुद्धिसारथिः पूर्वोक्तो मन:प्रग्रहवान्प्रगृहीतमनाः समाहितचित्तः सञ्शुचिर्नरो विद्वान्सोऽध्वन: संसारगतेः पारं परमेवाधिगन्तव्यमित्येतदप्नोति मुच्यते सर्वसंसारबन्धनैः । तद्विष्णोव्यपनशीलस्य ब्रह्मणः परमात्मनो वासुदेवाख्यस्य परमं [प्रकाशिका ] मनसोः सामीचीन्येऽश्वत्वेन रूपितानीन्द्रियाणि वश्यानि भवन्ति नान्यथेत्यर्थ ॥ ५ ॥ ६ ॥ हयत्वेन रूपितानामिन्द्रियाणां वशीकरणतदभावयोः प्रयोजनं दर्शयति मन्त्रद्वयेन । अमनस्केोऽनिगृहीतमना अत एवाशुचिः सर्वदा विपरीतचि- न्ताप्रवणत्वादित्यर्थः । न केवलं जिगमिषितप्राप्त्यभावमात्रं प्रत्युत गहनं संसारकान्तारमेव प्रापयतीत्यर्थ ॥ ७ ॥ ८ ॥ किं तत्पदमित्याकाङ्क्षायां तत्पदं दर्शयन्नुपसंहरति समीचीनविज्ञानमन:-