पृष्ठम्:काठकोपनिषत्.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काठकोपनिषद् ४४ [ प्रकाशिका ] स्यानुपपन्नतयाऽस्य जन्तोरित्यस्य प्रत्यक्षादिसंनिधापित- देहपरताया एव वक्तव्यत्वेन तद्गुहाहित आत्मा प्रागुपन्यस्तो जीव एवास्तु । न च कर्तृभोक्तत्वादिविशिष्टतया सदाऽहमिति भासमाने जीवे “कंस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति । क इत्था वेद यत्र सः” इत्युत्तरसंदर्भे प्रतिपाद्य दुर्विज्ञानत्वं कथमन्वेतीति वाच्यम् । जीवस्य कर्तृत्वादिविशिष्टतया सर्वलोकविदितत्वेऽपि मुक्तप्राप्यब्रह्मरूपविशिष्टतया दुर्विज्ञानत्वसंभवादिति चेन्न । प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः । इति जन्तुशब्दस्य चेतनपर्यायतया प्रकृतजीववाचित्वसंभवात् । अस्येतिशब्दस्य च पूर्वसंद- र्भोपस्थापितप्रत्यगात्मविषयत्वसंभवे प्रत्यक्षाद्यपस्थापितदेहविषयत्वाश्रयण स्यायुक्तत्वात् । अत्यन्ताणुत्वमहत्त्वयोः “ एष आत्मा ऽन्तर्हदयेऽणी- यान्त्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष म आत्माऽ- न्तर्हदये ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः ' छा० ३।१४।३ इत्यादिषु परमात्मधर्मतयाऽणोरणीयानिति मन्त्रप्रातिपाद्यस्य जीवत्वशङ्काया असंभवात् । ननु " नेतरोऽनुपपत्तेः" ब्र०सू० १।१।१६ इति सूत्रे सह ब्रह्मणा विपश्चितेति वाक्यश्रुतविपश्चित्वस्य ब्रह्मासाधारणलिङ्गत्वस्य भाष्ये प्रतिपादितत्वात् । न जायते म्रियते वा विपश्चि- दिति मन्त्रस्यापि पररीत्या परमात्मपरत्वमेवास्तु । एवं सत्यन्यत्र धर्मादिति- प्रश्नस्य प्राप्यद्वयपरत्वम् । प्रतिवचनस्य प्राप्यद्वयपरत्वमाश्रित्य न जायत इत्यादिमन्त्रद्वयस्य प्राप्यजीवस्वरूपपरत्वम् । अणोरणीयानिति संदर्भस्य च परमात्मपरत्वमित्वादिपरिकल्पनल्केशो नाश्रयणीय इति चेन्न । हननादिप्रतिषे- धाद्यनुपपत्त्या विपश्चिच्छब्दे मख्यार्थत्यागस्यावश्यकत्वेन तन्मन्त्रद्वयस्याणो रणीयानिति मन्त्रसंदर्भस्य चैकविषयत्वासंभवात् शिष्टमुत्तरत्र स्पष्टयिष्यते । तं तादृशं परमात्मानमक्रतुः काम्यकर्मादिरहितो धातुर्धारकस्य परमा- त्मनः प्रसादादात्मनो महिमानं महत्त्वसंपादकं स्वसार्वज्ञादिगुणाविर्भावहेतु- भूतं परमात्मानं यदा पश्यति तदा वीतशेोको भवतीत्यर्थः । घुम्वाद्यधिकरणे ब्र० सू० १।३।१ तु “ जुष्टं यदा पश्यत्यन्यमीशम्' क्ष्वे ० ४।७ इति मन्त्रखण्डं प्रस्तुत्य, अयं यदा स्वस्मादन्यं सर्वस्येशं प्रीयमाणमस्येश्वरस्य महिमानं च निखिलजगन्नियमनरूपं च पश्यति तदा वीतशोको भवतीति भगवता भाष्यकृता व्याख्यातत्वात्तदनुसारेणापि परमात्मनो निखिलजग- नियमनरूपं महिमानं च यः पश्यति स वीतशोको भवतीत्यर्थः । धातुः प्रसादा-