पृष्ठम्:काठकोपनिषत्.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भाष्यद्वयोपेता १।२।२० अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम् । तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः ॥२०॥ [शांकरभाष्यम्]कथं पुनरात्मानं जानातीत्युच्यते—अणोः सूक्ष्मादणीयाञ्श्या- माकादेरणुतरः । महतो महत्परिमाणान्महीयान्महत्तरः पृथि- व्यादेः । अणु महद्वा यदस्ति लोके वस्तु तत्तेनैवात्मना नित्येनात्मव- त्संभवति । तदात्मना विनिर्मुक्तमसत्संपद्यते । तस्मादसावेवात्माणो- रणीयान्महतो महीयान्सर्वनामरूपवस्तूपाधिकत्वात् । स चात्मास्य जन्तोर्बह्मादिस्तम्बपर्यन्तस्य प्राणिजातस्य गुहायां हृदये निहित आत्मभूतः स्थित इत्यर्थः । तमात्मानं दर्शनश्रवणमननविज्ञानलिङ्गमक्रतुरकामो दृष्टा- दृष्टबाह्यविषयोपरतबुद्धिरित्यर्थः । यदा चैवं तदा मनआदीनि करणानि धातवः शरीरस्य धारणात्प्रसीदन्तीत्येषां धातूनां प्रसादादात्मनो महिमानं कर्मनिमित्तवृद्धिक्षयरहितं पश्यत्ययमहमस्मीति साक्षाद्विजानाति । ततो वीतशोको भवति ॥ २० ॥ [ प्रकाशिका ] मात्रपरत्वमन्वारुह्य सूत्रकृता तन्निरासः कृत: । पाश्चरात्र- शास्त्रं तु परमतत्त्वहितपुरुषार्थानामेवाऽऽपाततोऽपि प्रतीतेर्वेदविरुद्धनिमि- त्तोपादानभेदाद्यप्रतीतेश्च कृत्स्नं प्रमाणमेवेति नैकदेशेऽप्यप्रामाण्यशङ्कावकाश इति द्रष्टव्यम् । एवमेव व्यासार्यैरुक्तम् । प्रकृतमनुसरामः ॥१९॥ एवं मन्त्रद्वयेन प्रत्यगात्मस्वरूपं विशोध्य तदात्मभूतपरमात्मस्वरूपमाहाणो रणीयानित्यादिना। अणोः सर्वाचेतनापेक्षया सूक्ष्माच्चेतनादणुतरस्ततोऽपि सूक्ष्म- स्तदन्तःप्रवेशयोग्य इत्यर्थः । महत आकाशादेरपि महत्तरः स्वाव्याप्तवस्तुरहित इत्यर्थः। अस्य जन्तोर्न जायते म्रियते वेति मन्त्रद्वयनिर्दिष्टस्य चेतनस्याऽऽत्मा- ऽन्तःप्रविश्य नियन्तेत्यर्थः । अतश्च पूर्वमन्त्रद्वयनिर्दिष्टात्प्रत्यगात्मस्वरूपा- दणोरणीयानितिमन्त्रसंदर्भप्रतिपाद्योऽन्य एवेति सिद्धम् । न चास्य जन्तो- रित्यस्य हृदयगुहावाचिना संबन्धसापेक्षेण गुहायामित्यनेनैवान्वितत्वेनाऽऽ- त्मेत्यनेन नान्वय इति शङ्क्यम् । आत्मशद्वान्वितस्यैव काकाक्षिन्यायेनोभय- त्रान्वयेदोषाभावात्। मूलतः शाखां परिवास्योपवेषं करोतीत्यत्र शाखां मूलतः परिवास्य मूलत उपवेषं करोतीति परिवासनान्वितस्यापि मूलत इत्यस्योपवेषं करोतीत्यनेनान्वयस्याप्यङ्गीकृतत्वात् , जीवहृदयगुहावर्तित्वप्रतिपादनेऽपि जीवभेदसिद्धेश्च । न हि जीवस्यैव जीवगुहावर्तित्वप्रतिपादने प्रयोजनमस्ति। ननु न जायत इत्युपन्यस्तस्याऽऽत्मनो जायमानवाचिजन्तुशब्देन परामर्श-