पृष्ठम्:काठकोपनिषत्.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४५ भाष्यद्वयोपेता १।२।११ आसीनो द्ररं व्रजाति शयानो याति सर्वतः ॥ कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥ २१ ॥ अशरीर शरीरेष्वनवस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ २२ ॥ [ शांकरभाष्यम्] अन्यथा दुर्विज्ञेयोऽयमात्मा कामिभिः प्राकृतपुरुषैः, यस्मात्– आसीनोऽवस्थितोऽचल एव सन्दूरं व्रजति शयानो याति सर्वत एवमसावात्मा देवो मदामदः समदोऽमदश्च सहर्षोऽहर्षश्च विरुद्धधर्मवानतोऽ शक्यत्वाज्ज्ञातुं कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति । अस्मदादेरेव सूक्ष्मबुद्धेः पण्डितस्य सुविज्ञेयोऽयमात्मा स्थितिगतिनित्यादिविरुद्धानेक- धर्मोपाधित्वाद्विरुद्धधर्मवत्त्वाद्विश्वरूप इव चिन्तामणिवदवभासते । अतो द्वर्विज्ञेयत्वं दर्शयति कस्तं मदन्यो ज्ञातुमर्हतीति । करणानामुपशमः शयनं करणजनितस्यैकदेशविज्ञानस्योपशमः शयानस्य भवति । यदा चैवं केवल सामान्यविज्ञानत्वात्सर्वतो यातीव । यदा विशेषविज्ञानस्थः स्वेन रूपेण स्थित एव सन्मनआदिगतिषु तदुपाधिकत्वाद्दूरं ब्रजतीव । स चेहैव वर्तते ॥२१॥ तद्विज्ञानाच्च शोकात्यय इत्यपि दर्शयति--अशरीरं स्वेन रूपेणाकाशकल्प आत्मा तमशरीरं शरीरेषु देवपितृमनुष्यादिशारीरेष्वनवस्थेष्ववस्थितिरहिते- ष्वनित्येष्ववस्थितं नित्यमविकृतमित्येतत् । महान्तं महत्वस्यापेक्षिकत्वशङ्का- यामाह-विभु व्यापिनमात्मानम् । आत्मग्रहणं स्वतोऽनन्यत्वप्रदर्शनार्थम् । आत्मशब्दः प्रत्यगात्मविषय एव मुख्यस्तमीदृशमात्मानं मत्वायमहामतेि धीरो धीमान्न शोचति । न ह्यवंविधस्यात्मविदः शोकोपपत्तिः ॥ २२ ॥ [प्रकाशिका] द्वीतशोको भवतीति वाऽन्वय । "प्रसीदत्यच्युतस्तस्मिन्प्रसन्ने ल्केशसंक्षयः । "इति स्मृतेरिति द्रष्टव्यम् । तमक्रतुं पश्यति वीतशोको धातु: प्रसादान्महिमानमीशमिति पाठे, अक्रतुं कर्मकृतोत्कर्षापकर्षरहितमित्यर्थः ॥ २० ॥ धातु:प्रसादशब्दितभगवदनुग्रहशून्यस्य परमात्मतत्त्वमत्यन्तालौकिक- त्वाद्दुरधिगममिति दर्शयति-परमात्मनः सर्वात्मगत्वेनेतरत्र विरुद्धतया प्रतीयमाना अप्यासीनदूरगन्तृत्वादिधर्मा जीवद्वारा भवन्तीति भावः । हर्षा- मर्षरूपविरुद्धधर्माध्यस्तं तं परमात्मप्रसादानुगृहीतमादृशजनादन्यः को वा ज्ञातेत्यर्थः ॥ २१ ॥ कर्मकृतशरीररहितमस्थिरेषु शरीरेषु नित्यत्वेन तत्र स्थितम् महान्तं प्रसिद्धवैभवशालिनं विभं सर्वव्यापिनम् । शिष्टं स्पष्टम् ॥ २२ ॥