१।२।१९ काठकोपनिषत् [ प्रकाशिका ] इदं महोपनिषदं चतुर्वेदसमन्वितम् । सांख्ययोगकृतान्तेन पाञ्चरात्रानुशब्दितम् ॥ इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् । ऋग्यजुःसामभिर्जुष्टमथर्वाङ्गिरसैस्तथा ॥ भविष्यति प्रमाणं वै एतदेवानुशासनम् । ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः । अर्चनीयश्च सेव्यश्च नित्ययुक्त्तैः स्वकर्मभिः । सात्वतं विधिमास्थाय गीतः संकर्षणेन यः ॥ अस्मात्प्रवक्ष्यते धर्मान्मनुः स्वायंभुवः स्वयम् । " इत्यादिभिर्वचनैर्बहुषु स्थलेषु पाञ्चरात्रप्रामाण्यं प्रतिष्ठापितवता शारी- रकशास्त्रे तत्प्रामाण्यं निराक्रियत इत्यस्यासङ्गतत्वातू न चैवं--- परं तत्त्वमिदं कृत्स्नं सांख्यानां विदितात्मनाम् । यदुक्तं यतिभिर्मुख्यैः कपिलादिभिरीश्वरैः यस्मिन्न विभ्रमाः केचिद्दृश्यन्ते मनुजर्षभ । गुणाश्च यस्मिन्बहवो दोषहानिश्च केवला ॥ इति कापिलमतस्य भारते भ्रमादिदोषाभावप्रतिपादनात् । सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते ॥ यथागमं यथान्यायं निष्ठा नारायणः प्रभुः । इति सांख्ययोगपाशुपतादीनामपि नारायणनिष्ठत्वप्रतिपादनात् । तमेव शास्त्रकर्तारः प्रवदन्ति मनीषिणः । इति तत्तच्छास्त्रकर्तृणामपि नारायणप्रतिपादकत्वस्य प्रतिपादनात् । सांख्यं योगः पाञ्चरात्रं वेदाः पाशुपतं तथा । आत्मप्रमाणान्येतानि न हन्तव्यानि हेतुभिः ॥ इति सर्वेषामप्यात्मप्रमाणत्वप्रतिपादनाच्च । सर्व प्रमाणं हि तथा यथैतच्छास्रमुत्तमम् ॥ इति पाञ्चरात्रदृष्टान्तेनेतरशास्राणामपि प्रामाण्यप्रतिपादनाच्च । तत्पादे सांख्यपाशुपताद्यागमानामपि प्रामाण्यं न निराक्रियत इति चेत् । सत्यम् । भ्रमविप्रलिप्सादिराहित्यं शास्रकर्तृणां परमतात्पर्यं च नारायण एवेति समानम् । तथाऽप्यबहुश्रुततया तद्वक्त्तृणां हृदयमजानन्त आपातप्रतिपन्नमेवार्थे तात्त्विकं मन्यमाना ये प्रत्यवतिष्ठन्ते तान्प्रति सांख्याद्यागमानामापातप्रतिपन्नार्थ-
पृष्ठम्:काठकोपनिषत्.djvu/६४
दिखावट