पृष्ठम्:काठकोपनिषत्.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४१ भाध्यद्व्योपेता १।२।१९ [प्रकाशिका] लक्षणस्वभावान्यथाभावरूपोत्पत्तिः। ईश्वरस्य तु तन्नियन्तृत्वाद्य- वस्थासत्वेऽप्युक्तलक्षणानिष्टविकारद्वयाभावान्नित्यो नित्यानामिति परमात्मन इतराविलक्षणनित्यत्वोक्तिरिति द्रष्टव्यम् । वर्णितश्च सूत्रार्थ । ननु जायते म्रियत इति प्रतिषिद्धा जीवोत्पातिः, वासुदेवात्संकर्षणो नाम जीवो जायत इति प्रतिपायत: पञ्चरात्रस्य कथं प्रामाण्यमिति चेत् । अस्याः शङ्का- यास्तर्कपादे निराकृतत्वात् । तथा हि वासुदेवात्संकर्षणो नाम जीवो जायत इति जीवस्योत्पत्तिः प्रतिपाद्यते सा च जीवे न संभवति । तथा संकर्षणा- त्प्रद्युन्नसंज्ञ मनो जायत इति कर्तुर्जीवात्करणस्य मनस उत्पत्तिः श्रूयमा- णाऽपि न संभवति । कर्तुर्जीवात्करणोत्पत्तेरेतस्माज्जायते प्राणो मनः सर्वे- द्रियाणि चेति मनसो ब्रह्मोत्पत्तिप्रतिपादकश्रुतिविरुद्धत्वादिति " उत्पत्य- संभवात् । न च कर्तुः करणम् " ब्र०सू० २।२।४२।४३ इति द्वाभ्यां सूत्राभ्यां पूर्वपक्षं कृत्वा " विज्ञानादिभावे वा तदप्रतिषेध " ब्र० सू० २२॥४४ " विप्रतिषेधाच्च " ब्र० सू० २।२।४५ इति द्वाभ्यां सूत्राभ्यां सिद्धान्तितम् । वाशब्दः पूर्वपक्षव्यावृत्त्यर्थः । विज्ञानं च तदादि च विज्ञानादि । ननु च ’ क्यन्तो घुः ’ इत्यादिशब्दस्य नित्यपुंलिङ्गत्वा- त्कथमेतदिति चेत् । नायं घुरपि तु, अद भक्षण इत्यस्मादावश्यकार्थे ण्विप्रत्यय आदीतेि रूपं सिध्यति । तेन च निखिलजगत्संहर्तृमुखेन कार- णत्वं प्रतिपाद्यत इति द्रष्टव्यम् । आदिविज्ञानं परमात्मेत्यर्थः । संकर्षणो नाम जीवो जायत इति श्रुतस्य जीवशब्दार्थस्य तदभिमानिपरमात्मभावे सति शास्त्रप्रामाण्यप्रतिषेधः सिध्यति । परमात्मनश्च जननं नाम स्वेच्छा- धीनशरीरपरिग्रहः । तस्मिन्नेव पाञ्चरात्रे स ह्यनादिरनन्तश्चेति जीवोत्पत्ते- र्विशेषेण प्रतिषिद्धतया तद्विरुद्धाभिधानासंभवात् । संकर्षणो नाम जीवो जायत इत्यनेन जीवाभिमानिसंकर्षणस्येच्छाधीनशरीरपरिग्रहरूपोत्पत्ति: प्रतिपाद्यत इति न पाञ्चरात्राप्रामाण्यमिति सूत्रार्थः । ननु सांख्यपाशुपता- द्यधिकरणवदिदमप्यधिकरणं पाश्चरात्रप्रामाण्यप्रतिषेधकं किं न स्यादिति चेत् । वेदोपबृंहणाय भारतसंहितां कुर्वता बादरायणेन " इदं शतसहस्राद्धि भारताख्यानविस्तरात् । आमथ्य मतिमन्थानं दध्नो घृतमिवोद्भतम् ॥ नवनीतं यथा दध्नो द्विपदां ब्राह्मणेो यथा । आरण्यकं च वेदेभ्य ओषधीभ्यो यथाऽमृतम् ॥