पृष्ठम्:काठकोपनिषत्.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१॥२॥१९ काठकोपनिषद् ४० उभौ तौ न विजानीतो नायहन्ति न हन्यते ॥ १९ ॥ [ शांकरभाष्यम् ] क्रियत्वादात्मनस्तथा न हन्यत आकाशवदविक्रियत्वा- देव । अतोऽनात्मज्ञविषय एव धर्माधर्मादिलक्षणः संसारो न ब्रह्मज्ञस्य । श्रुतिप्रामाण्यान्न्यायाच्च धर्माधर्माद्यनुपपत्तेः ॥ १९ ॥ [ प्रकाशिका ] वेत्यत्र हेतुमाह-पुराण इति । ननु कथमस्य नित्यत्वं शरीरान्तर्वर्तिनः शरीरविनाशानुविनाशित्वावश्यंभावादित्याह--न हन्यते हन्यमाने शरीरे । स्पष्टोऽर्थः ॥ १८ ॥ हन्ता चेन्मन्यते हन्तुम् । अहमेनं वधिष्यामीति देहात्मदृष्टया मन्यते चेदित्यर्थः । हतश्रेन्मन्यते हतम् । छिन्नदेहावयवो देहात्मदृष्टयाऽऽत्मानं हतोऽहमिति मन्यते चेदित्यर्थः ’ । “ उभौ तौ न विजानीतः " । आत्म- स्वरूपमिति शेषः । नायं हन्ति । आत्मानमिति शेषः । न हन्यते आत्म- स्वरूपमिति शेषः । न च वेदान्तवेद्यपरिशुद्धात्मस्वरूपे कथं हननादिप्रस- क्तितत्पूर्वकनिषेधाविति वाच्यम्, । तस्यैव क्षेत्रीभूततया तत्प्रयुक्ततत्संभवा- दिति द्रष्टव्यम् । इमौ मन्त्रौ १८–१९ प्रस्तुत्य वियत्पादे चिन्तितम् । तत्र हि ‘वायुश्चान्तरिक्षं चैतमृतम्’ बृ०२॥३॥३ इति वाय्वन्तरिक्षयोर्नित्यत्वश्र वणेऽपि “ आत्मन आकाशः संभूत " " आकाशाद्वायुः " तै० २।१ इति तयोरुत्पत्तिश्रवणादेकविज्ञानेन सर्वविज्ञानसिद्ध्यर्थं सर्वस्य वस्तुनो ब्रह्मविकारत्वस्यावश्याश्रयणीयत्वाच्च यथोत्पत्तिरङ्गीक्रियते, एवं जीवानां नित्यत्वश्रवणेऽपि “ तोयेन जीवान्विससर्ज भूम्याम् ” " प्रजापतिः प्रजा असृजत " इति जीवानामपि सृष्टिश्रवणादेकविज्ञानेन सर्वविज्ञानसिध्द्यर्थ च जीवस्यापि सृष्टिरभ्यपगन्तव्येति पर्वपक्षे प्राप्ते " नाऽऽत्माऽश्रुतेर्नित्य- त्वाच्च ताभ्यः ' ब्र० सू० २ । १७ इति सूत्रेण सिद्धान्तितम् । आत्मा नोत्पद्यते न जयते म्रियते वा विपश्चिज्ज्ञाज्ञौ द्वावजावित्युत्पत्ति- निषेधश्रुतेः । ताभ्य एव श्रुतिभ्यो नित्यत्वावगमाच्च । न चोत्पत्तिश्रुतेः सर्वविज्ञानप्रतिज्ञाविरोधः शङ्कयः स्वरूपस्य नित्यत्वेऽपि ज्ञानसंकोचवि- काशलक्षणान्यथाभावरूपावस्थान्तरापतिसत्वेनोत्पातिश्रतेः सर्वविज्ञानप्रति- ज्ञायाश्चोपपत्तेः । उत्पत्तिनिषेधश्रुतेश्च स्वरूपान्यथाभावलक्षणोत्पत्त्यभावपर- तयाऽविरोधात् । इयांस्तु विशेषः–चिदचिदीश्वराणां त्रयाणामप्यवस्थान्त- रापत्तिलक्षणेोत्पत्तिरूपो विकारोऽस्त्येव । तथाऽप्यचेतनानां स्वरुपान्यथाभा वलक्षणोत्पातिः । जीवानां तु सा नास्ति । अपि तु ज्ञानसंकोचविकास-