पृष्ठम्:काठकोपनिषत्.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३९ भाष्यद्व्योपेता १॥२॥१८ अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे १८ हन्ता चेन्मन्यते हन्तु हतश्चेन्मन्यते हतम् ॥ . [शांकरभाष्यम्] न जायते नोत्पद्यते म्रियते वा न म्रियते चोत्पत्तिम्तो वस्तुनो- ऽनित्यस्यानेकविक्रियास्तासामाद्यन्ते जन्माविनाशलक्षणे विक्रिये इहात्मनि प्रतिषिध्येते प्रथमं सर्वविक्रियाप्रतिषेधार्थे न जायते म्रियते वेति । विपश्चि न्मेधावी । अविपरिलुप्तचैतन्यस्वभावात् । किंच नायमात्मा कुतश्चित्कार- णान्तराद्वभूव । स्वस्माच्चात्मनो न बभूव कश्चिदर्थान्तरभूतः । अतोऽयमा- त्माऽजो नित्य । शाश्वतोऽपक्षयविवार्जितः । यो ह्यशाश्वतः सोऽपक्षीयते । अयं तु शाश्वतोऽत एव पुराणः पुराऽपि नव एवेति । यो ह्यवयवोपचय- द्वारेणाभिनिर्वर्त्यते स इदानीं नवो यथा कुम्भादिस्तद्विपरीतस्त्वात्मा पुराणो वृद्धिविवर्जित इत्यर्थः । यत एवमतेो न हन्यते न हिंस्यते हन्यमाने शस्रा- दिभिः शरीरे । तत्स्थोऽप्याकाशवदेव ॥ १८ ॥ एवंभूतमप्यात्मानं शरीरमात्रात्मदृष्टिर्हन्ता चेद्यदि मन्यते चिन्तयति हन्तुं हनिष्याम्येनामिति योऽप्यन्यो हतः सोऽपि चेन्मन्यते हतमात्मानं हतोऽहमित्युभावपि तौ न विजानीतः स्वमात्मानं यतो नायं हन्ति अवेि- [ प्रकाशिका ] इदं च प्रस्तुत्य व्यासार्यैरित्थमुक्तम् । इदं मन्त्रद्वयं ताव- देकविषयम् । " न हन्यते हन्यमाने शरीरे " इत्येतद्विवरणरूपत्वाद्विद्व- तीयमन्त्रस्य । हन्ता चेदिति मन्त्रश्च जीवविषय एव लोकस्य परमात्मनि हन्तृहन्तव्यभावप्रतिपत्त्यभावात् । परमात्मा हि प्रत्यक्षागोचरः कथं तस्मि- न्वध्यतादिप्रतिपत्तिः । अहमेवं हन्मि, अयं मां हन्तुमागच्छतीति वध्यघा- तकभावाभिमानो हि देहिनां जीवविषय एव । ननु नास्य जरयैतज्जीर्यती- तिवत्परमात्मनोऽपि हननप्रतिषेध उपपद्यते । सत्यम् । तत्र दहराकाशस्य देहान्तःस्थित्या शङ्कितविकारनिषेध उपपद्यत इह तु लोकसिद्धा भ्रांति- रनूद्य निरस्यते । न हि परमात्मनि वध्यघातकभावभ्रांतिः कस्याप्यस्ति । अतो न वादनिषेधावनुपपन्नौ । न जायत इति मंत्रश्च तेनैकार्थः । अतो मंत्रद्वयमपि जीवविषयकमेवेति । अक्षरार्थस्तु न जायते म्रियते वा विप- श्चित्-विपश्चित्वार्होऽयमिदानीमपि जननमरणशून्य इत्यर्थः । नायं कुत- श्चित्—उत्पादकशून्यः । न बभूव कश्चित्-पूर्वमपि मनुष्यादिरूपेण जन- नशून्यः । न जायत इत्यत्र हेतुमाह-अज इति । न म्रियत इत्यत्र हेतु- माह-नित्य इति । न कुतश्चिदित्यत्र हेतुमाह-शाक्ष्वत इति । पूर्वं न बभू-