पृष्ठम्:काठकोपनिषत्.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१॥२॥१६ काठकोपनिषत् ३८ एतद्धयेवाक्षरं ब्रह्म एतद्धयेवाक्षरं परम् । एतद्धयेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १६ ॥ एतदालम्बन श्रेष्ठमेतदालम्बनं परम् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १७ ॥ न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् । [शांकरभाष्यम्] अत एतद्धयेवाक्षरं ब्रह्मापरमेतद्धयेवाक्षरं परं च । तयोर्हि प्रतीकमेतदक्षरम् । एतद्धयेवाक्षरं ज्ञात्वोपास्य ब्रहेति यो यदिच्छति परमपरं वा तस्य तद्भवति । परं चेज्ज्ञातव्यमपरं चेत्प्राप्तव्यम् ॥ १६ ॥ यत एवमत एतदालम्बनमेतद्ब्रह्मप्राप्त्यालम्बनानां श्रेष्ठं प्रशस्यतमम् । एतदालम्बनं परमपरं च परापरब्रह्मविषयत्वात् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते । परस्मिन्ब्रह्मण्यपरास्मिंश्च ब्रह्मभूतो ब्रह्मवदुपास्यो भवतीत्यर्थः॥१७॥ अन्यत्र धर्मादित्यादिना पष्टस्यात्मनोऽशेषविशेषरहितम्यालम्बनत्वेन प्रतीकत्वेन र्चोकारो निर्दिष्टः । अपरस्य च ब्रह्मणो मन्दमध्यमप्रतिपत्तृन्प्रति । अथेदानीं तस्योंकारालम्बनस्यात्मनः साक्षात्स्वरूपनिर्दिधारयिषयेदमुच्यते [प्रकाशिका]प्रधाना उपरितनभागा इति व्यासार्यैव्याख्यातम्। ब्रह्मचर्यं गुरुकु- लवासः स्त्रीसङ्गराहित्यादिलक्षणं यदिच्छन्तोऽनुतिष्ठन्ति । संगृह्यतेऽनेनेति संग्रह. शब्दः । प्राप्यवक्तव्यत्वप्रतिज्ञापदेऽस्मिन्मन्त्रेऽर्थात्प्रणवप्रशंसाया लाभात्प्रणवं प्रशस्येति भाष्यस्य च सर्वे वेदा इत्यादिपादत्रयोक्तब्रह्मप्रति- पादकतया प्रशस्येत्यर्थ इति श्रुतप्रकाशिकावचनस्य नानुपपत्तिरिति द्रष्ट- व्यम् । संक्षेपेण तत्प्रतिपादकं किमित्यत आह - " ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृत । ” भ. गी. १७॥२३ इति प्रणवस्य ब्रह्म- वाचकत्वात्प्रणवावयवयेोरकारमकारयोः परजीववाचितयोपायोपेत्रोरप्युपदि- ष्टत्वमस्तीति द्रष्टव्यम् ॥ १५ ॥ एवं वाचकं प्रणवं द्वाभ्यां मन्त्राभ्यां स्तौति—ओमित्यनेनैवाक्षरेण परमपरुषमभिध्यायीतेति ब्रह्मप्राप्तिसाधनध्यानालम्बनत्वादिदमेवाक्षरं ब्रह्मप्रा- सिाधनत्वाद्ब्रब्रह्म । जप्येषु ध्येयेषु च श्रेष्ठमित्यर्थः । एतदक्षरमुपासमानो ऽनेनोपासनेनेदं फलं मे भूयादिति यत्कामयते तस्य तद्भवतीत्यर्थः ॥१६॥ एतर्दोकाररूपमालम्बनं श्रेष्ठं ध्यानादेरिति शेषः । अत एव एतदालम्ब- नकं ध्यानादि सर्वोत्कृष्टमित्यर्थः । स्पष्टोऽर्थः ॥ १७ ॥ प्रथमं तावत्प्रत्यगात्मस्वरूपमाह न जायते म्रियते वेत्यादिना मन्त्रद्वयेन