पृष्ठम्:काठकोपनिषत्.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३७ भाष्यद्वयोपेता १|२|१५ प्रकाशिका ] भ.गी.१३॥१६ इत्युपबृंहणानुसारात्, “यस्य ब्रह्म च क्षत्रं च " कं० १॥२॥२६ इति मन्त्रस्यापि तत्र संगतार्थत्वात् । “द्वितीयं विष्णुसंज्ञस्य योगिध्येयं परं पदम् । प्रसूतिनाशस्थितिहेतुरीश्वरस्त्वमेव नान्यत्परमं च यत्प- दम् । " इति स्मृत्यनुसारेण ‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’ क० १॥३॥९ इति मन्त्रस्यापि शुद्धात्मस्वरूपे संगतार्थत्वात् । “अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । "भ. गी.८॥२१ इति स्मृत्यनुसारेण “सा काष्ठा सा परा गतिः " क० १॥३॥११ इति मन्त्रस्यापि परिशुद्धात्मवि- षयत्वसंभवात् । “समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।" भ. गी. १३॥२७ इतिस्मृत्यनुसारेण , " एषु सर्वेषु भूतेषु ' क० १।३।१२ इति मंत्र स्यापि विशुद्धस्वरूपपरत्वोपपत्ते " पराञ्चि खानि " क० २॥१॥१ इति मन्त्रे परागर्थनिन्दाद्वारेण प्रत्यगर्थस्यैव प्रकरणप्रतिपाद्यत्वाविष्करणात् । " तिष्ठन्तं परमेश्वरम् "गी० १३॥२७ इति गीतानुसारेण " ईशानो भूतभव्यस्य " क० २॥१॥५ इति मन्त्रस्यापि तत्रैव शुद्धात्मस्वरूपे संग- तार्थत्वात् । भेदप्रसक्तिमिति प्रत्यगात्मस्वरूप एव “ नेह नाना " क० २॥१॥११ इति निषेधस्यापि संगतार्थत्वात् । अभेदव्यापिनो वायोस्तथाऽसौ परमेश्वरः । इति स्मृतिप्रत्यभिज्ञापकस्य "वायुर्यथैको भुवनं प्रविष्टः " क० २॥२॥१० इति मन्त्रस्यापि परिशुद्धस्वरूपपरत्वसंभवात् । " सर्वतःपा- णिपादं तत् " गी० १३।१३ इति गीताभाष्ये ब्रह्मणा परमसाम्यमापन्ने शुद्धात्मस्वरूपे सर्वतःपाणिपादादिकार्यकर्तृत्वं संभवतीत्युपपादितत्वात् । " एकं बीजं बहुधा यः करोति " क्ष्वे० ६॥१२ इति मन्त्रस्यापि परिशु- ध्दपरत्वेऽनुपपत्त्यभावात् " न तत्र दूर्यः भाति ' क० २॥२॥१५ इति मन्त्रस्यापि " न तद्भासयते सूर्यः " गी १५॥६ "ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ' गी० १३॥१७ इति गीतावचनेन परिशु- द्धात्मस्वरूपपरत्वस्य युक्तत्वात् । तस्माच्छरीरात्प्रवृहेदित्यौपसंहारिकम- न्त्रस्य शुद्धात्मपरत्व एव स्वारस्यात् । कृत्स्नाया अप्युपनिषदः प्रजापति- वाक्यवत्प्रत्यगात्मस्वरूपमात्रपरत्वोपपत्तौ प्रत्यगात्मपरमात्मस्वरूपप्राप्यद्वय- वस्त्वल्केशाश्रयणं यथेति शङ्का प्रत्युक्ता । सर्ववेदप्रतिपाद्यस्यैव तत्ते पदं संग्रहेण ब्रवीमीति वक्तव्ये त्वेतत्प्रतिज्ञानात्परमात्मस्वरूपप्रतिपादकवेदभाग- प्रतिपाद्यस्य शुद्धस्वरूपे संभवाच्छुद्धस्वरूपस्याप्यन्तर्यामिणः परमात्मस्वरूप- स्य शुद्धरूपप्रतिपादकभागेनापि प्रतिपाद्यत्वसंभवादिति द्रष्टव्यम् । तपः