पृष्ठम्:काठकोपनिषत्.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१|२|१३ काठकोपनिषत् ३२ एतच्छुत्वा संपरिगृह्य मत्यैः प्रदृह्य धम्यैमणुमेतमाप्य । स मोदते मोदनीय हि लब्ध्वा विवत सद्म नचिकेतसं मन्ये । किंचैतदात्मतत्त्वं यदहं वक्ष्यामि । तच्छ्रुत्वाचार्यप्रसादात्सम्यगात्मभावेन [शांकरभाष्यम्]परिगृह्योपादाय मर्त्यो मरणधर्मा धर्मादनपेतं धर्म्ये प्रवृह्योद्यम्य पृथक्कृत्य शरीरादेरणुं सूक्ष्ममेतमात्मानमाप्य प्राप्य स मर्त्यो विद्वान्मोदते मो- दनीयं हर्षणीयमात्मानं लब्ध्वा । तदेतदेवंविधं ब्रह्मसह्न नचिकेतसं त्वां प्रत्यपा- वृतद्वारं विवृतमभिमुखीभूतं मन्ये मोक्षार्ह त्वां मन्य इत्यभिप्रायः ॥ १३ ॥ [प्रकाशिका गह्वरेष्ठमन्तर्यामिणम्। पुराणमनादिम् । अध्यात्मयोगाधिगमेन । विषयेभ्यः प्रतिसंगृहीतचेतस आत्मनि समवधानमध्यात्मयोगः " यच्छेद्वाङन- नसी प्राज्ञः' क. १॥३८॥१३ " यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह " क. २॥३॥१० इत्यादिना वक्ष्यमाणः । तेन योऽयमधिगमो जीवात्मज्ञान तेन हेतुना देवं परमात्मानं मत्वेत्यर्थः । जीवात्मज्ञानस्य परमात्मज्ञानहेतुत्वादिति भावः । हर्षशोकौ विषयलाभालाभप्रयुक्तहर्षशोकौ जहातीत्यर्थः ॥ १२ ॥ एतदात्मतत्वं श्रुत्वा सपरिगृह्य मननादिकं कृत्वत्यर्थः । कर्मसाध्यं शरीरादि प्रवृह्य पृथक्कृत्य परित्यज्येत्यर्थः । एवं स्वात्मभूतं सूक्ष्मतया चक्षुराद्यगोचरं "अणीयान्ह्यप्रतर्क्यम्" क. १॥२॥८ इति निर्दिष्टं परमा- त्मानं देशविशेषे प्राप्य । स विद्वान्मोदनीयं प्रीतिविषयमपहतपाप्मत्वादि- गुणाष्टकविशिष्टं स्वस्वरूपं लब्ध्वा मोदत आनन्दी भवतीत्यर्थः । “ एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्प द्यते " छा०८॥३॥४" स तत्र पर्येति जक्षत्क्त्रीडत्रममाण ' छा०८॥१२॥३ इति श्रुत्यर्थोऽत्रानुसन्धेयः । एवं प्रश्नस्योत्तरमुक्त्वा नचिकेतसं मोक्षार्ह- त्वेन स्तौति--नचिकेतसं प्रति ब्रह्मरूपं सद्म धाम विवृतद्वारं प्रवेशार्हे मन्य इत्यर्थः | " तस्यैष आत्मा विशते ब्रह्मधाम " मु०३॥२॥४ इति श्रुतेः । ननु ब्रह्मजज्ञं देवमीड्यं विदित्वेति श्रुत्यैकार्थ्यायाध्यात्मयोगाधि- गमेन मत्वेत्यत्रापि परमात्मात्मकजीव एव प्रतिपाद्यताम् । ततश्च तं दुर्द- र्शमिति पूर्वखण्डोऽपि जीवपर एवास्तु । ततश्च श्रवणायापि बहुभिर्यो न लभ्य इति पूर्वसंदर्भोऽपि परिशुद्धजीवस्वरूपपर एवास्तु ततश्च --- " आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः । आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाऽप्येनं वेद न चैव कश्चित् ॥ भ.गी.२॥२९ इति परिज्ञुद्धात्मविषयगीतावचनैकार्थ्यमप्युपपद्यत इति म्रेन्न ब्रह्मजज्ञ-