पृष्ठम्:काठकोपनिषत्.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३३ भाष्यद्वयोपेता १॥२॥१४ अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥ १४ ॥ [ शांकरभाष्यम् ] यद्यहं योग्यः प्रसन्नक्ष्चासि भगवन्मां प्रत्यन्यत्र धर्माच्छा- स्रीयाद्धर्मानुष्ठानात्तत्फलात्तत्कारकेभ्यश्च पृथग्भूतमित्यर्थः । तथान्यत्राधर्मा- त्तथान्यत्रास्मात्कृताकृतात् । कृतं कार्यमकृतं कारणमस्मादन्यत्र । किंचान्यत्र भूताच्चातिक्रान्तात्कालाद्रव्याच्च भविष्यतश्च तथा वर्तमानात् । कालत्रयेण यन्न परिच्छिद्यत इत्यर्थः । यदीदृशं वस्तु सर्वव्यवहारगोचरातीतं पश्यसि जानास् तद्वद मह्यम् ॥ १४ ॥

[ प्रकाशिका ] मिति मन्त्रे ब्रह्मजत्वरूपोपक्रमश्रुतजीवलिङ्गबलेन चरमश्रुत- देवशब्दस्य देवात्मकत्वरूपार्थप्रापणेऽपि तं दुर्दर्शमिति मन्त्रे तादृशजीव लिङ्गाभावेन देवमित्यस्थ देवात्मकमित्यर्थाश्रयणायोगात् । एतदेवाभिप्रेत्य भगवता भाप्यकृता " गुहां प्रविष्टौ " ब्र० सू० १।२।११ इति सूत्रे परमात्मनस्तावतं दुर्दर्श गुढमनुप्रविष्टमिति गुहाप्रवेशो दृश्यत इत्युक्तम् । तथैवायं मन्त्रः परमात्मपरतया यासायैर्विवत । गह्वरेष्ठमिति पदेन तु परमात्मनो गह्वरशब्दितदुर्विज्ञेयपरिशुद्धात्मस्वरूपशारीरकत्वमप्युक्तम् । इयांस्तु विशेषः-ब्रह्मजज्ञमिति मन्त्रे परमात्मात्मकपरिशुद्धजीवस्वरूपं प्रति- पाद्यते, तं दुर्दर्शमिति मन्त्रे तु जीवशरीरकपरमात्मस्वरूपं प्रतिपाद्यत इति न तयोरैकार्थ्यहानि ॥ १३ ॥ न ह्यधुवैः प्राप्यते हि ध्रुवं तत् ' एतच्छूत्वा संपरिगृह्य मर्त्य प्र- वृह्य धम्यैमणमेतमाप्य स मोदते मोदनीथ हि लब्ध्वा " अध्यात्मयोगा- धिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति " इति प्रदेशेषु धर्मफलवेि- लक्षणतया ध्यानसाध्यतया प्राप्यतया च निर्दिष्टस्य प्राप्यस्य स्वरूपं चो- क्तप्रदेशेष्वेव धर्मविलक्षणतया मत्वेति प्रतिपन्नस्योपायस्य स्वरूपं च धीरो हर्षशोकौ जहातीत्यत्र धीर इति प्रतिपन्नस्य प्राप्तुश्च स्वरूपं शोधयितुं पृच्छत्यन्यत्र धर्मादित्यादिना—ननु भाष्ये देव मत्वेत्युपास्यतया निर्दि- ष्टस्य प्राप्यभूतस्य देवस्याध्यात्मयोगाधिगमेनेति वेदितव्यतया निर्दिष्टस्य प्राप्तुः प्रत्यगात्मनश्च मत्वा धीरो हर्षशोकौ जहातीति निर्दिष्टस्य ब्रह्मो- पासनस्य च स्वरूपशोधनाय पुनः पप्रच्छ । अन्यत्र धर्मादित्युक्त्तेः । कथं तद्विरुद्धतया धीर इति निर्दिष्टस्य प्राप्तिरित्युच्यत इति चेन्मैवं वोचः । अध्यात्मयोगाधिगमेनेति वेदितव्यतया निर्दिष्टमात्मशब्दवाच्यं प्रजापति-