सामग्री पर जाएँ

पृष्ठम्:काठकोपनिषत्.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३१ भाष्यद्व्योपेता १॥२॥११ स्तोममहदुरुगायं प्रतिष्ठां दृष्टवा धृत्या धीरो नचिकेतोऽत्यस्राक्षीः तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गव्हरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ।॥१२॥ [शांकरभाष्यम्] जगतः साध्यात्माधिभूताधिदैवादेः प्रतिष्ठामाश्रयं सर्वा- त्मकत्वात् । क्रतोः फलं हैरण्यगर्भं पदमनन्त्यमानन्त्यम् । अभयस्य च पारं परां निष्ठाम् । स्तोमं स्तुत्यं महदणिमाचैश्वर्याद्यनेकगुणसंहतं स्तोमं च तन्महच्च निरतिशयत्वात्स्तोममहत् । उरुगायं विस्तीर्णा गतिम् । प्रतिष्ठां स्थितिमात्मनोऽनुत्तमामपि दृष्ट्वा धृत्या धैर्येण धीरो धीमान्सन्नचिकेतोऽ- त्यस्राक्षीः परमेवाकांक्षन्नतिसृष्टवानसि सर्वमेतत्संसारभोगजातम् । , अहो बतानुत्तमगुणोऽसि ॥ ११ ॥ यं त्वं ज्ञातुमिच्छस्यात्मानं तं दुर्दर्श दुःखेन दर्शनमस्येति दुर्दशेऽति- सूक्ष्मत्वात् । गूढं गहनमनुप्रविष्टं प्राकृतविषयविकारविज्ञानैः प्रच्छन्नमित्ये तत् । गुहाहितं गुहायां बुद्धौ स्थैितं तत्रोपलभ्यमानत्वात् । गह्वरेछं गह्वरे विषमेऽनेकानर्थसंकटे तिष्ठतीति गह्वरेष्ठम् । यत एवं गूढमनुप्रविष्टो गुहा- हितक्ष्चतो गह्वरेष्ठः । अतो दुर्दशः । तं पुराणं पुरातनमध्यात्मयोगाधेिग- मेन विषयेभ्यः प्रतिसंहृत्य चेतस आत्मनि समाधानमध्यात्मयोगस्तस्याधि- गमस्तेन मत्वा देवमात्मानं धीरो हर्षशोकावात्मन उत्कर्षापकर्षयोरभावा- ज्जहाति ॥ १२ ॥ [प्रकाशिका] त्वादृङ्नो भूयान्नचिकेतः प्रष्टति पूर्वमन्त्रोक्तं नचिकेतसः श्रवणा- धिकारं विवृणोति-क्रतोः कर्मणः प्रतिष्ठां फलभूतां जगतः कामस्याप्ति चतुर्मुमुखस्थानपर्यन्तसर्वलोकसंबन्धिस्यादिविषयात्मककामप्राप्ति च दृष्टवा मोक्षस्वरूपमाह-आनन्त्यमभयस्य पारमित्यादिना । अविनाशित्वमत्यन्तनि- र्भयत्वमपहतपाप्मत्वसत्यसंकल्पत्वादिमहागुणगणरूपस्तोममुरुकीर्ति च स्थैर्ये च मोक्षगतं दृष्टवा लौकिकान्कामान्प्रज्ञाशाली त्वं त्यक्तवानसीत्यर्थः । यद्वा मोक्षरूपपरमात्मस्वरूप एव सर्वकामावाप्तिं तत्रैव सकलजगदाधारत्वं क्रतो- रनन्तफलरूपतां चेत्येवं सर्वे परमात्मविषयतया योजनीयम् ॥ ११ ॥ तृतीयं प्रश्नं प्रति वक्ति तं दुर्दर्शमित्यादिना मन्त्रद्वयेन–श्रव- णायापि बहुभिर्यो न लभ्य इत्युक्तरीत्या द्रष्टुमशक्यं गूढं तिरोधाय ककर्मरूपाविद्यातिरोहितम् । सर्वभूतानुप्रविष्टं गुहाहितं हृदयगुहावर्तिनम् । १ स्थितमिति स्थाने स्थितमाहितं निहितामेति पाठः ।