पृष्ठम्:काठकोपनिषत्.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१॥२॥२ काठकोपनिषद् २६ श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ संपरीत्य विविनक्ति धीरः । श्रेयो हि धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद्वृणीते ॥ २ ॥ स त्वं प्रियान्प्रियरूपाश्च कामानभिध्यायन्नचिकेतोऽत्यस्राक्षीः । नैता सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ॥ ३ ॥ दूरमेते विपरीते विषची अविद्या या च विद्येति ज्ञाता । [शांकरभाष्यम्] यघुभे अपि कर्तुं स्वायत्ते पुरुषेण किमर्थे प्रेय एवादत्ते बाहुल्येन लेोक इत्युच्यते सत्यं स्वायत्ते तथापि साधनतः फलतश्च मन्दबुद्धीनां दुर्विवेकरूपे सती व्यामिश्रीभूते इव मनुष्यमेतं पुरुषमा इतः प्राप्नुतः श्रेयश्च प्रेयश्च। अतो हंस इवाम्भसः पयस्तौ श्रेय:प्रेय:पदार्थौ संपरीत्य सम्यक्परिगम्य मनसा- लोच्य गुरुलाघवं विविनक्ति पृथक्करोति धीरो धीमान् । विविच्य च श्रेयो हेि श्रेय एवाभिवृणीते प्रेयसोऽभ्यर्हितत्वात् । कोऽसौ धीरः । यस्तु मन्दोऽल्प- बुध्दिः स विवेकासामर्थ्याद्योगक्षेमनिमित्तं शरीराद्यपचयरक्षणानिमित्तमित्येत- त्प्रेयः पशुपुत्रादिलक्षणं वृणीते ॥ २ ॥ स त्वं पुनः पुनर्मया प्रलोभ्यमानोऽपि प्रियान्पुत्रादीन्प्रियरूपांश्चाप्सर:- प्रभृतिलक्षणान्कामानभिध्यायंश्चिन्तयंस्तेषामनित्यत्वासारत्वादिदोषान्हे नचि- केतोऽत्यस्राक्षीरतिसृष्टवान्परित्यक्तवानस्यहो बुद्धिमत्ता तव नैतामवाप्तवा- नसि सृङ्कां सृतिं कुत्सितां मूढजनप्रवृत्तां वित्तमयीं धनप्रायाम् । यस्यां सृतौ मज्जन्ति सीदन्ति बहवेोऽनेके मूढा मनुष्या ॥ ३ ॥ तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीत इत्युक्तं [प्रकाशिका] बध्नीतः । पुरुषं स्ववशतामापादयत इत्यर्थः । तयोर्मध्ये श्रेय आददानस्य मोक्षाय प्रयतमानस्य साधु भद्रं भवति । य उ प्रेयो वृणीते स पुरुषार्थाभ्द्रष्टो भवति । उ इत्यवधारणे ॥ १ ॥ श्रेयश्च प्रेयश्च मनुष्यं प्रामुतः । तौ श्रेयःप्रेयःपदार्थौ सम्यगालोच्य नरिक्षीरे हंस इव पृथकरोति प्राज्ञः प्रेयोऽपेक्षयाऽभि अभ्यर्हितं श्रेय एव वृणीते । मन्दमतिर्योगक्षेमाद्धेतोः प्रेयो वृणीते । शरीरस्योपचयो योगः । क्षेमः परिपालनम् ॥ २ ॥ तादृशस्त्वं स्वतो रूपतश्च प्रियान्काम्यमानान्स्रयादीनित्यर्थः । दुःखो- दर्कत्वदुःखमिश्रत्वादिदोषयुक्ततया निरूपयंस्त्यक्तवानसीत्यर्थः । वित्तमयीं धनप्रायां सृङ्कां कुत्सितगतिं विमूढजनसेवितामेतां न प्राप्तवानसि । स्पष्टोऽर्थः ॥ ३ ॥ याविद्येति ज्ञाता कामकर्मात्मिका या च विद्येति ज्ञाता वैराग्यतत्त्व-