पृष्ठम्:काठकोपनिषत्.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भाष्यद्वयोपेता १।१।२९ योऽयं वरो गूढमनुप्राविष्टो नान्यं तस्मान्नचिकेता वृणीते ॥२९॥ काठकेोपनिषदि प्रथमाध्याये प्रथमा वल्ली समाप्ता । अन्यच्छ्रेयोऽन्यदतैव प्रेयस्ते उभे नानार्थे पुरुष सिनीतः । तयोः श्रेय आदंदानस्य साधु भवति हीयतेऽथोद्य उ प्रेयो वृणीते ॥ १ ॥ [शांकरभाष्यम्] अतो विहायानित्यैः कामैः प्रलोभनं । यन्मया प्रार्थितं यस्मिन् प्रेत इदं विचिकित्सनं विचिकित्सन्त्यस्ति नास्तीत्येवंप्रकारं हे मृत्यो सांपराये परलोकविषये महति महत्प्रयोजननिमित्त आत्मनो निर्णयविज्ञानं यत्तद्ब्रूहि कथय नोऽस्मभ्यम् । किं बहुना योऽयं प्रकृत आत्मविषयो वरो गूढं गहनं दुर्विवेचनं प्राप्तोऽनुप्रविष्टस्तस्माद्वरादन्यमविवेकिभिः प्रार्थनीयम नित्यविषयं वरं नचिकेता न वृणीते मनसापीति श्रुतेर्वचनमिति ॥ २९ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्य- श्रीमदाचार्यश्रीशंकरभगवतः कृतौ काठकोपनिषद्भाष्ये प्रथमाध्याये प्रथमवल्ली समाप्ता ॥ १ ॥ परीक्ष्य शिष्यं विद्यायोग्यतां चावगम्याह--अन्यत्पृथगेव श्रेयो निःश्रेयसं तथान्यदुताप्येव प्रेयः प्रियतरमपि ते प्रेयःश्रेयसी उभे नानार्थे भिन्नप्रयो- जने सती पुरुषमधिकृतं वर्णाश्रमादिविशिष्टं सिनीतो बध्रीतस्ताभ्यामात्मक- र्तव्यतया प्रयुज्यते सर्वः पुरुषः । श्रेय:प्रेयसोभ्युदयामृतत्वार्थी पुरुषः प्रवर्तते । अतः श्रेय:प्रेय:प्रयोजनकर्तव्यतया ताभ्यां बद्ध इत्युच्यते सर्वः पुरुष: । ते यद्यप्येकैकपुरुषार्थसंबन्धिनी विद्याविद्यारूपत्वाद्विरुद्धे इत्यन्यत- रापरित्यागेनैकेन पुरुषेण सहानुष्ठातुमशक्यत्वात्तयोर्हित्वाविद्यारूपं प्रेयः श्रेय एव केवलमाददानस्योपादानं कुर्वतः साधु शोभनं शिवं भवति । यस्त्वदूरदर्शी विमूढो हीयते वियुज्यतेऽस्मादर्थात्पुरुषार्थात्पारमार्थिकात्प्रयोजनान्नित्यात्प्र- च्यवत इत्यर्थः । कोऽसौ य उ प्रेयो वृणीत उपादत्त इत्येतत् ॥ १ ॥ [ प्रकाशिका ] गूढमात्मतत्वमनुप्रविष्टो योऽयं वरस्तस्मादन्यं नचिकेता न वृणीते स्मेति श्रुतेर्वचनम् ॥ २९ ॥ इति प्रथमा वल्ली ॥ १ ॥

एवं शिष्यं परक्ष्यि तस्य मुमुक्षोः स्थैर्ये निश्चित्य तस्योपदेशयोग्यतां मन्वानो मुमुक्षां स्तौति-आतिप्रशस्तं मोक्षवर्त्माप्यन्यत् । प्रियत्वास्पदं भोग- वत्र्मप्यन्यत् ते श्रेय:प्रेयसी परम्परविलक्षणप्रयोजने सती पुरुषं सिनीतो क. नि.-४