१।१।२७ काठकोपनिषत् २४
जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव ॥
अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः क्वधःस्थः प्रजाजन् ॥
अभिध्यायन्वर्णरतिप्रमोदानतिदीर्घे जीविते को रमेत ॥ २८ ॥
यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्सांपराये महूति ब्रूहि नस्तत्
[ शांकरभाष्यम् ] तस्यैव जीविष्यामो यावद्याम्ये पदे त्वमीशिष्यसीशिष्यसे प्रभुः स्याः । कथं हि मर्त्यस्त्वया समेत्याल्पधनायुर्भवेत् । वरस्तु मे वरणीयः स एव यदात्मविज्ञानम् ॥ २७ ॥
यतश्चाजीर्यतां वयोहानिमप्राप्नुवताममृतानां सकाशमुपेत्योपगम्यात्मन उत्कृष्टं प्रयोजनान्तरं प्राप्तव्यं तेभ्यः प्रजानन्नुपलभमानः स्वयं तु जीर्यन्मर्त्यो जरामरणवान्क्वधःस्थः कुः पृथिव्यधश्चान्तरिक्षादिलोकापेक्षया तस्यां तिष्ठतीति क्वधःस्थः सन्कथमेवमविवेकिभिः प्रार्थनीयं पुत्रवित्तहिरण्याद्यस्थिरं वृणीते । क्व तदास्थ इति वा पाठान्तरम् । अस्मिन्पक्षे चाक्षरयोजना। तेषु पुत्रादिष्वास्थास्थितिस्तात्पर्येण वर्तनं यस्य म तदास्थस्तेाऽधिकतरं पुरुषार्थे दुष्प्रापमपि प्रापिपयिषुः क्व तदास्थो भवेन्न कश्चित्तदसारज्ञस्तदर्थी स्यादित्यर्थः । सर्वो ह्युपर्युपर्येव बुभूषति लोकस्तस्मान्न पुत्रवित्तादिलोभैः प्रलोभ्योऽहम् । किंचाप्सर:प्रमुखान्वर्णरतिप्रमोदाननवस्थितरूपतयाभिध्यायन्निरूपयन्यथावदतिदीर्घे जीविते को विवेकी रमेत ॥ २८ ॥
[प्रकाशिका] किंच-त्वां वयं दृष्टवन्तश्चेद्वित्तं प्राप्स्यामहे । त्वद्दर्शनमस्ति चेद्वित्तलाभे को भार इति भावः । तर्हि चिरजीविका प्रार्थनीयेत्यत आह-यावत्कालं याम्ये पदे त्वमीश्वरतया वर्तसे । व्यत्ययेन परस्मैपदम् । तावत्पर्यन्तमस्माकमपि जीवनं सिद्धमेव । न हि त्वदाज्ञातिलङ्घनेनास्मज्जीवितान्तकरः काश्चदस्ति । वरलाभालाभयोरपि तावदेव जीवनमिति भावः । अतो येयं प्रेत इति प्राक्प्रस्तुतो वर एव वरणीय इति भावः ॥ २७ ॥
जरामरणशून्यानां मुक्तानां स्वरूपं ज्ञात्वा । प्रजानन्विवेकी जरामरणोपप्लुतोऽयं जनस्तदास्थो जरामरणाद्युपप्लुताप्सरःप्रभृतिविषयविषयकास्थावन्क्व कथं भवेदित्यर्थः । तत्रत्यान्वर्णरतिप्रमोदान् । वर्णा आदित्यवर्णत्वादिरूपविशेषाः । रतिप्रमोदा ब्रह्मभोगादिजनितानन्दविशेषास्तान्सर्वानभिध्यायन्निपुणतया निरूपयन् । अत्यल्प ऐहिके जीविते कः प्रीतिमान्स्यादित्यर्थः ॥२८॥
महति पारलौकिके यस्मिन्मुक्तात्मस्वरूपे संशेरते तदेव मे ब्रृहि ।