पृष्ठम्:काठकोपनिषत्.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भाष्यद्वयोपेता १॥२॥४ विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त ॥ ४ ॥ अविधायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः । दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ५ ॥ न सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । [शांकरभाष्यम्] तत्कम्माद्यतो दूर दूरेण महतान्तरेणैते विपरीते अन्योन्यव्या वत्तरूपे विवेकाविवेकात्मकत्वात्तम:प्रकाशाविव । विषूची विषच्यौ नानागती भिन्नफले संसारमोक्षहेतुत्वेनेत्येतत् । केते इत्युच्यते-या चाविद्या प्रेयोविषया विद्येति च श्रेयोविषया ज्ञाता निर्ज्ञातावगता पण्डितैस्तत्र विद्याभीप्सिनं विद्यार्थिनं नचिकेतसं त्वामहं मन्ये। कस्माद्यस्मादविद्वद्बुद्धिप्रलोभिनः कामा अप्सरःप्रभृतयो बहवोऽपि त्वा त्वां नालोलुपन्त न विच्छेदं कृतवन्तः श्रे- योमार्गदात्मोपभोगाभिवाञ्छासंपादनेन । अतो विद्यार्थिनं श्रेयोभाजनं मन्य इत्यभिप्रायः ॥ ४ ॥ ये तु संसारभाजोऽविद्यायामन्तरे मध्ये घनीभूत इव तमसि वर्तमाना वेष्टयमानाः पुत्रपश्चादितृष्णापाशशतैः स्वयं वयं धीराः प्रज्ञावन्तः पाण्डिताः शास्त्रकुशलाश्चेति मन्यमानास्ते दन्द्रम्यमाणा अत्यर्थं कुटिलामनेकरूपां गतिं गच्छन्तो जरामरणरोगादिदु:खैः परियन्ति परिगच्छन्ति मूढा अविवेकिनो- ऽन्धेनैव दृष्टिविहीनेनैव नीयमाना विषमे पथि यथा बहवोऽन्धा महान्त- मनर्थमच्छन्ति तद्वत् ॥ ५ ॥ अत एव मूढत्वान्न सांपरायः प्रतिभाति । संपरेयत इति संपराय [प्रकाशिका ] ज्ञानमयी एते दूरमत्यन्तविपूच्यौ भिन्नगती परस्परविरुद्धे च । विद्याभीप्सिनं विद्यार्थिन । ५ । विद्याभीप्सितमिति पाठ आहितान्नित्वान्निष्ठान्तम्य परनिपातश्छान्दसत्वाद्वा । कामा बहवोऽपि त्वां नालोलुपन्त श्रेयोमार्गाद्वि- च्छेदं न कृतवन्तः । विषयवशगो न भवसीत्यर्थ । " लुपसद ' पा सू ३॥१॥२४ इति यङन्ताल्लड् । छान्दसो यलोपः । यड्लुगन्ताद्वा छान्दसमा- त्मनेपदमदभावश्च ॥ ४ ॥ अविद्या या च विद्येति ज्ञातेत्युपात्तमार्गद्वयेऽविद्यामार्ग निन्दति- काम्यकर्मादिलक्षणायामविद्यायां मध्ये घनीभूत इव तमसि वर्तमानाः । स्वयमेव प्रज्ञाशालिनः शास्त्रकुशलाश्चेति मन्यमानाश्च । जरारोगादिदुःख- पीडिता अविवेकिनः परिभ्रमन्ति । स्पष्टोऽर्थः । केचित्तु दन्द्रम्यमाणा इति पाठमाश्रित्य विषयकामाग्निा दुतचित्ता इत्यर्थ वर्णयन्ति ॥ ५ ॥