पृष्ठम्:काठकोपनिषत्.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

    भाष्यद्वयोपेता     १॥१॥२०

[शांकरभाष्यम्] त्तरो ग्रन्थ आरभ्यते । तमेतमर्थं द्वितीयवरप्राप्त्याप्यकृतार्थत्वं तृतीयवरगोचरमात्मज्ञानमन्तरेणेत्याख्यायिकया प्रपञ्चयति---

 यतः पूर्वस्मात्कर्मगोचरात्साध्यसाधनलक्षणादनित्याद्विरक्तस्यात्मज्ञानेऽधिकार इति तन्निन्दार्थं पुत्राद्युपन्यासेन प्रलोभनं क्रियते । नचिकेता उवाच तृतीयं वरं नचिकतो वृणीष्वेत्युक्तः सन् । येयं विचिकित्सा संशयः प्रेते मृते मनुष्येऽस्तीत्येकेऽस्ति शरीरेन्द्रियमनोबुद्धिव्यतिरिक्तो देहान्तरसंबन्ध्यात्मेत्येके नायमस्तीति चैके नायमेवंविधोऽस्तीति चैकेऽतश्चास्माकं न प्रत्यक्षेण नापि वानुमानेन निर्णयविज्ञानम् । एतद्विज्ञानाधीनो हि परः पुरुषार्थ इत्यत एतद्विद्यां विजानीयामहमनुशिष्टो ज्ञापितस्त्वया वराणामेप वरस्तृतीयोऽवशिष्टः ॥ २० ॥

[ प्रकाशिका ] षार्थरूपब्रह्मप्राप्तिलक्षणमोक्षयाथात्म्यविज्ञानाय तदुपायभूतपरमात्मोपासनपरावरात्मतत्त्वजिज्ञासयाऽयं प्रश्न्: क्रियते । एवं च येयं प्रेत इति न शरीरमात्रवियोगाभिप्रायम् । अपि तु सर्वबन्धविनिर्मोक्षाभिप्रायम् । यथा ' न प्रेत्य संज्ञाऽस्तीति ' बृ० ४।४।१२ । अयमर्थः- मोक्षाधिकृते मनुष्ये प्रेते सर्वबन्धविनिर्मुक्तितत्स्वरूपविषयवादिविप्रतिपत्तिनिमित्ताऽस्त्यात्मिका नास्त्यात्मिका येयं विचिकित्सा तदपनोदाय तत्स्वरूपयाथात्म्यं त्वयाऽनुशिष्टोऽहं विद्यां जानीयामिति । तथा हि विप्रतिपद्यन्ते केचिद्वित्तिमात्रस्यात्मनः स्वरूपोच्छित्तिलक्षणं मोक्षमाचक्षते । अन्ये वित्तिमात्रस्यैव सतोऽविद्यास्तमयम् । परे पाषाणकल्पस्यात्मनो ज्ञानाद्यशेषवैशेषिकगुणोच्छेदलक्षणं कैवल्यरूपम् । अपरेऽपहतपाप्मानं परमात्मानमभ्युपगच्छन्तस्तस्यैव्रोपाधिसंसर्गनिमित्तजविभावस्यापोध्यपगमने तद्भावलक्षणं मोक्षमातिष्ठन्ते । त्रयन्तनिष्णातास्तु निखिलजगदेककारणस्याशेषहेयप्रत्यनीकानन्तज्ञानानन्दैकस्वरूपस्य स्वाभाविकानवाधिकातिशयासङ्ख्येयकल्याणगणाकरस्य सकलेतरविलक्षणस्य सर्वात्मभूतस्य परस्य ब्रह्मणःशरीरतया प्रकारभूतस्यानुकूलापरिच्छिन्नज्ञानस्वरूपस्य परमात्मानुभवैकरसस्य जीवस्यानादिकर्मरूपाविद्योच्छेदपूर्वकस्वाभाविकपरमात्मानुभवमेव मोक्षमाचक्षते । तत्र मोक्षस्वरूपं तत्साधनं च त्वत्प्रसादाद्विद्यामिति नचिकेतसा पृष्टो मृत्युरिति भणितम् । तथा ' त्रयाणामेव चैवम् ' ब्र० सू० १।४।६ इति सूत्रे तृतीयेन वरेण मोक्षस्वरूपप्रश्नद्वारेणोपेयस्वरूपमुपेतृस्वरूपमुपायभूतकर्मानुगृहीतोपासनस्वरूपं च पृष्टमिति भाषितम् । श्रुतप्रकाशिकायां