पृष्ठम्:काठकोपनिषत्.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।१।२०     काठकोपनिषत्

  येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके ।
  एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः ॥ २० ॥

[शांकरभाष्यम्] एतावद्धयतिक्रान्तेन विधिप्रतिषेधार्थेन मन्त्रब्राह्मणेनावगन्तव्यं यद्वरद्वयसूचितं वस्तु नात्मतत्त्वविषययाथात्म्यविज्ञानम् । अतो विधिप्रतिषेधार्थविषयस्यात्मनि क्रियाकारकफलाध्यारोपणलक्षणस्य स्वाभाविकस्याज्ञानस्य संसारबीजस्य निवृत्त्यर्थं तद्विपरीतब्रह्मात्मैकत्वविज्ञानं क्रियाकारकफलाध्यारोपणलक्षणशून्यमान्यन्तिकनिःश्रेयसप्रयोजनं वक्तव्यमित्यु- [प्रकाशिका] क्रियमाण इति निर्णीतं तृतीये । तथा ' योगिनः प्रति स्मर्यते स्मार्ते चैते ' ब्र० सू० ४।२।२१ इति सूत्रे स्मार्तम्य वेदान्तेन प्रत्यभिज्ञानमित्युक्तं परैः । ततश्च " स्वर्गे लोके " इति मन्त्रेऽध्यात्मशास्त्रसिद्धस्यापहतपाप्मत्वादिब्रह्मगुणाष्टकस्यैव ग्रहणमुचितम् । " स्वर्गलोका अमृतत्वं भजन्ते " इति तृतीयप्रश्नमन्त्रेऽमृतत्वभाक्त्वश्रवणादमृतत्वशब्दस्याध्यात्मशास्त्रे मोक्ष एव प्रयोगात् । अजीर्यताममृतानामित्यत्रामृतशब्दस्यापि मुक्तपरत्वेनापेक्षिकामृतत्वपरत्वाभावात् । उत्तरत्र " ततो मया नाचि- केतश्चितोऽग्निरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् " क० १।२।१० " अभयं तितीर्षतां पारं नाचिकेतं शकेमहि " क० १।३।२ इति परस्यैव ब्रह्मणो नाचिकेताग्निप्राप्यत्वकथनेन म्वर्गशब्दस्य प्रसिद्धस्वर्गपरत्वासंभवात् । " नान्यं तस्मान्नचिकेता वृणीते " क० १।१।२९ इति ब्रह्मेतरविमुखतया प्रतिपादितस्य नचिकेतसः क्षयिष्णुम्वर्गप्रार्थनानुपपत्तेश्च " मुख्यं वा पूर्वचोदनाल्लोकवत् " जै०सू० १२।२।८।२३ इत्यत्र समसंख्याकयोः परस्परविरोध एव मुख्यस्य प्राबल्यम् । न ह्यल्पवैगुण्ये संभवति बहुवैगुण्यं प्रयोगवचनं क्षमते । अतो यत्र जघन्यानां भूयस्त्वं तत्र " भूयसां स्यात्सधर्मत्वम् " जै० सू० १२।२।७।२२ इति न्याय एव प्रवर्तत इत्येव मीमांसकैः सिद्धान्तितत्वात् । प्रतर्दनविद्यायाम् " एष ह्येवसाधु कर्म कारयति "। " एष लोकाधिपतिरेष लोकपालः । " " आनन्दोऽजरोऽमृतः " कौ० ३।८ इत्यैापसंहारिकपरमात्मधर्मबाहुल्येन प्रक्रमश्रुतजीवलिङ्गबाधस्य " प्राणस्तथाऽनुगमात् " ब्र० सू० १।१।२८ इत्यत्र प्रतिपादितत्वादित्यलमतिचर्चया । प्रकृतमनुसरामः ॥ १९ ॥

 नचिकेता आह ' अत्ता चराचरग्रहणात् ' ब्र० सू० १।२।९ इत्यधिकरण इमं मंन्त्रं प्रस्त्युत्येत्थं हि भगवता भाष्यकृता, अत्र परमपुरु-