पृष्ठम्:काठकोपनिषत्.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।१।२०     काठकोपनिषद्

[प्रकाशिका] च येयमित्यादिप्रश्नवाक्ये मोक्षस्वरूपप्रश्नः कण्ठोक्तः , प्रतिवचनप्रकारेणोपासनादिप्रश्नश्चार्थसिद्धः । निर्विशेषतापत्तिर्मोक्षश्चेद्वाक्यार्थज्ञानस्योपायता स्यात् । उभयलिङ्गकं प्राप्यं चेत्तथात्वेनोपासनमुपायः स्यात् । अतो मोक्षस्वरूपज्ञानं तदनुबन्धिज्ञानापेक्षमिति च वर्णितम् । अतो येयं प्रेत इत्यस्य मुक्तस्वरूपप्रश्नपरत्वमेव न देहातिरिक्तपारलौकिककर्मानुष्ठानोपयोगिकर्तृभोक्त्रात्मकजीवस्वरूपमात्रपरत्वम् । अन्यथा तस्यार्थस्यदुरधिगमत्वप्रदर्शनविविधभोगवितरणप्रलोभनपरीक्षाया असंभवादिति द्रष्टव्यम् । नचिकेतसो ह्ययमभिप्रायः– हितैषिवचनादात्मा परित्यक्तचरमदेहाविर्भूतापहतपाप्मत्वादिगुणाष्टको भवतीत्युपश्रुत्य स्वर्गे लोके न भयं किंचनास्तीत्यादिना मन्त्रद्वयेन मोक्षसाधनभूताग्निमप्राक्षम् । अधुना तु वादिविप्रतिपत्त्या तद्विषये संदेहो जायते । अयं स्वर्गे लोके न भयं किंचनास्ती- त्यादिना मयोपन्यस्तापहतपाप्मत्वादिविशिष्टरूप आत्मास्तीत्येके नास्ती त्यपरे । त्वयोपादिष्ट एतज्जानीयामिति । अत एव प्रतिवचने " एतच्छ्रुत्वा संपरिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य । स मोदते मोदनीयंहि लब्ध्वा ". क० १।२।१३ इत्येतत्प्रश्नानुगुण्यमेव दृश्यते । अतो यथोक्त एवार्थः । केचित्तु " पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ " ब्र० सू० ३।२।५। इति सूत्रे तिरोहितामति निष्ठान्तपद उपसर्जनतया निर्दिष्टस्य तिरोधानस्य ' देहयोगाद्वा सोऽपि ब्र० सू० ३।२।६ इति तदुत्तरसूत्रे सोऽपि तिरोधानभावोऽपीति पुंल्लिङ्गतच्छब्देन परामर्श दर्शनात् । ' गुहां प्रविष्टावात्सानौ हि तद्दर्शनात् ' ब्र० सू० १।२।११ इत्यत्रापि प्रविष्टावित्युपसर्जनतया निर्दिष्टस्य प्रवेशस्य तद्दर्शनादिति तच्छब्देन परामर्शदर्शनान् । " सर्वनाम्नानुसंधिर्वृत्तिच्छन्नस्य " इति वामनसूत्रे कृत्तद्धितादिवृत्तिन्यग्भूतस्यापि सर्वनाम्ना परामर्श स्याङ्गीकृतत्वात् । येयं प्रेत इति निष्ठान्तप्रेतशब्द उपसर्जनतया निर्दिष्ट स्यापि प्रायणशब्दितमोक्षस्य " देहयोगाद्वा सोऽपि " ब्र० सू० ३।२।६ इति वन्नायमस्तीति चैक इत्यत्रायंपदेन परामर्शोस्तु न चैवं भुक्तवत्यस्मिन्भोजनमस्ति वा न वेति वाक्यवन्मुक्तेऽस्मिन्मोक्षोऽस्ति न वेति संदेहकथनं व्याहतार्थकमिति वाच्यम् । मोक्षसामान्यमभ्युपेत्य मोक्षविशेषे संदेहस्योपपादयितुं शक्यत्वादयमित्यनेन विशेषपरामर्शसंभवात् । ननु न प्रायणशब्दस्य मोक्षवाधित्वं क्वचिदद्दष्टं शरीरवियोगवाचित्वात् । श्रुतप्रका-