पृष्ठम्:काठकोपनिषत्.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१|१|१८     काठकोपनिषत्    १२

  स मृत्युपाशान्पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥१८॥
  एष तेऽग्निर्नचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण ।
  एतमग्निं तवैव प्रवक्ष्यन्ति जनासस्तृतीयं वरं नचिकेतो वृणीष्व ।

[शांकरभाष्यम्] विद्वांश्चिनुते निर्वर्तयति नाचिकेतमग्निं क्रतुं स मृत्युपाशानधर्माज्ञानरागद्वेषादिलक्षणान्पुरतोऽग्रतः पूर्वमेव शरीरपातादित्यर्थः । प्रणोद्यापहाय शोकातिगो मानसैर्दुःखैर्वर्जित इत्येतत् । मोदते स्वर्गलोके वैराजे विराडात्मस्वरूपप्रतिपत्त्या ॥ १८ ॥

 एष ते तुभ्यमग्निर्वरो हे नचिकेतः स्वर्ग्यः स्वर्गसाधनो यमग्निं वरमवृणीथाः प्रार्थितवानसि द्वितीयेन वरेण सोऽग्निर्वरो दत्त इत्युक्तोपसंहारः । किंचैतमग्निं तवैव नाम्ना प्रवक्ष्यन्ति जनासो जना इत्येतदेष वरो दत्तो मया चतुर्थस्तुष्टेन । तृतीयं वरं नचिकेतो वृणष्वि । तस्मिन्ह्यदत्त ऋणवानहमित्यभिप्रायः ॥ १९ ॥

[ प्रकाशिका ] मन्त्रनिर्दिष्टं ब्रह्मस्वरूपं तदात्मकस्वात्मस्वरूपं त्रिभिरेत्य संधिमिति निर्दिष्टमग्निस्वरूपं च विदित्वा गुरूपदेशेन शास्त्रतो वा ज्ञात्वा । एतादृशार्थत्रयानुसंधानपूर्वकं नाचिकेतमग्निं यश्चिनुते । स मृत्युपाशान्रागद्वेषादिलक्षणान्पुरतः शरीरपातात्पूर्वमेव प्रणोद्य तिरस्कृत्य जीवदशायामेव रागादिरहितः सन्नित्यर्थः । पूर्वमेव व्याख्यातम् ॥ १८ ॥

 यो वाप्येतां ब्रह्मजज्ञात्मभूतां चितिं विदित्वा चिनुते नाचिकेतम् ।
 स एव भूत्वा ब्रह्मजज्ञात्मभूतः करोति तद्येन पुनर्न जायते ॥ १ ॥

  य एतां चितिं ब्रह्मजज्ञात्मभूतां विदित्वा ब्रह्मात्मकस्वस्वरूपतयानुसंधाय नाचिकेतमग्निं चिनुते स एव ब्रह्मात्मकस्वात्मानुसंधानशाली सन्नपुनर्भवहेतुभूतं यद्भगवदुपासनं तदनुतिष्ठति । ततश्चाग्नौ भगवदात्मकस्वात्मत्वानुसंधानपूर्वकमेव चयनं " त्रिभिरेत्य संधिं त्रिकर्मकृत्तरति जन्ममृत्यू " क. १ । १ । १६ इति पूर्वमन्त्रे भगवदुपासनद्वारा मोक्षसाधनतया निर्दिष्टं नान्यदिति भावः । अयं च मन्त्रः केषुचित्कोषेषु न दृष्टः कैश्चिद्व्याकृतश्च । अथापि प्रत्ययितव्यतमैर्व्यासादिभिरेव व्याख्यातत्वान्न प्रक्षेपशङ्का कार्या ॥

उपदिष्ट इति शेषः । स्पष्टोऽर्थः । किंच जनास्तवैव नाम्नैतमग्निं प्रवक्ष्यन्ती-