पृष्ठम्:काठकोपनिषत्.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

    व्याख्याद्वयोपेता १।१।१७

  त्रिणाचिकेतस्त्रिभिरेत्य संधिं त्रिकर्मकृत्तरति जन्ममृत्यू ।
  ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमा शान्तिमत्यन्तमेति ॥
  त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वाश्चिनुते नाचिकेतम् ।।

[ शांकरभाष्यम् ] गृहाण । अन्यदपि कर्मविज्ञानमनेकफ़लहेतुत्वात्स्वीकुर्वित्यर्थः ॥ १६ ॥

 पुनरपि कर्मस्तुतिमेवाह त्रिणाचिकेतस्त्रि:कृत्वो नाचिकेतोऽग्निश्चितो येन स त्रिणाचिकेतस्तद्विज्ञानस्तदध्ययनस्तदनुष्ठानवान्वा त्रिभिर्मातृपित्राचार्यैरेत्य प्राप्य संधि संधानं संबन्धं मात्राद्यनुशासनं यथावत्प्राप्येत्येतत् । तद्धि प्रामाण्यकारणं श्रुत्यन्तरादवगम्यते । यथा मातृमान्पितृमानित्यादेः । वेदस्मृतिशिष्टैर्वा प्रत्यक्षानुमानागमैर्वा । तेभ्यो हि विशुद्धिः प्रत्यक्षा त्रिकर्मकृदिज्याध्ययनदानानां कर्ता तरत्यतिक्रामति जन्ममृत्यू । किंच ब्रह्मजज्ञं ब्रह्मणो हिरण्यगर्भाज्जातो ब्रह्मजः । ब्रह्मजश्चासौ ज्ञश्चेति ब्रह्मजज्ञः सर्वज्ञो ह्यसौ । तं देवं द्योतनाज्ज्ञानादिगुणवन्तमीड्यं स्तुत्यं विदित्वा शास्त्रतो निचाय्य दृष्ट्वा चात्मभावेनेमां स्वबुद्धिप्रत्यक्षां शान्तिमुपरतिमत्यन्तमेत्यतिशयेनैति । वैरा़जं पदं ज्ञानकर्मसमुच्चयानुष्ठानेन प्राप्नोतीत्यर्थः ॥१७॥

 इदानीमग्निविज्ञानचयनफलमुपसंहरति प्रकरणं च त्रिणाचिकेतस्त्रयं यथोक्तं या इष्टका यावतीर्वा यथा वेत्येतद्विदित्वावगम्य यश्चैवमात्मरूपेणाग्निं ।

[ प्रकाशिका ] कत्रयाध्यायी त्रिकर्मकृद्यजनाध्ययनदानकृत्पाकयज्ञहविर्यज्ञसोमयज्ञकृद्वा त्रिभिरग्निभिस्त्रिभिरनुष्ठितैरग्निभिः संधिं परमात्मोपासनेन संबन्धमेत्य प्राप्य जन्ममृत्यू तरतीत्यर्थः । " करोति तद्येन पुनर्न जायते " इत्यनेनैकार्थ्यात् । एवमेव ह्ययं मन्त्रः " त्रयाणामेव चैवम् " ब्र० सू० १।४।६ इति सूत्रे व्यासार्यैर्विवृतः । त्रिभिरेत्य संधिमिति निर्दिष्टमङ्गभूतं परमात्मोपासनमाहायं मन्त्रखण्डः " विशेषणाच्च " ब्र० सू० १।२।१२ इति सूत्रभाष्ये ब्रह्मजज्ञो जीवो ब्रह्मणो जातत्वाज्ज्ञत्वाच्च तं देवमीड्यं विदित्वा जीवात्मानमुपासकं ब्रह्मात्मकत्वेनावगम्येत्यर्थ इति विवृतः । देवशब्दस्य परमात्मवाचितया जीवपरयोश्चैक्यासंभवादत्रत्यदेवशब्दस्य परमात्मत्वपर्यन्तार्थ इति भाष्याभिप्रायः । निचाय्य ब्रह्मात्मकं स्वात्मानं साक्षात्कृत्येमां त्रिकर्मकृत्तरतीति पूर्वमन्त्रनिर्दिष्टां संसाररूपानर्थशान्तिमेतीत्यर्थः ॥ १७॥

 त्रिणाचिकेत उक्तार्थः । त्रयमेतद्विदित्वा ब्रह्मजज्ञं देवमीड्यमिति