१॥१॥१५ काठकोपनिषत् १०
लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा ।
स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनरेवाह तुष्टः ॥१५॥
तमब्रवीत्प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः ।
तवैव नाम्ना भवितायमग्रिः सृङ्कां चेमामनेकरूपां गृहाण ॥१६॥
[शांकरभाष्यम्] इदं श्रुतेर्वचनम्। लोकादिं लोकानामादिं प्रथमशरीरित्वादग्निं
तं प्रकृतं नचिकेतसा प्रार्थितमुवाचोक्तवान्मृत्युस्तस्मै नचिकेतसे । किंच या इष्ट-
काश्चेतव्याः स्वरूपेण । यावतीर्वा संख्यया । यथा वा चीयतेऽग्निर्येन प्रकारेण सर्वमेतदुक्तवानित्यर्थः ।
स चापि नचिकेतास्तन्मृत्युनोक्तं यथावत्प्रत्ययेनावदत्प्रत्युच्चारितवान् ।
अथ तस्य प्रत्युच्चारणेन तुष्टः सन्मृत्युः पुनरेवाह वरत्रयव्यतिरेकेणान्यं वरं दित्सुः ॥ १५ ॥
कथं तं नचिकेतसमब्रवीत्प्रीयमाणः शिष्ययोग्यतां पश्यन्प्रीयमाणः प्रीतिमनुभवन्महात्माक्षुद्रबुद्धिर्वरं तव चतुर्थमिह प्रीतिनिमित्तमद्येदानीं ददामि भूयः पुनः प्रयच्छामि । तवैव नचिकेतसो नाम्नाभिधानेन प्रसिद्धो भविता मयोच्यमानोऽयमग्निः । किंच सृङ्कां शब्दवतीं रत्नमयीं मालामिमामनेकरूपां विचित्रां गृहाण स्वीकुरु । यद्वा सृङ्कामकुत्सितां गतिं कर्ममयीं ।
[प्रकाशिका] विद्धि त्वमेतं निहितं गुहायाम् । ब्रह्मोपासनाङ्गतयैतज्ज्ञानस्य मोक्षहेतुत्वलक्षणमेतत्स्वरूपं गुहायां निहितमन्ये न जानन्ति त्वं जानीहीति भावः । यद्वा ज्ञानार्थस्य विदेर्लाभार्थकत्वसंभवादग्निं प्रजानंस्त्वमनन्तलोकाप्तिं प्रतिष्ठां लभस्वेत्युक्ते हेतुहेतुमद्भावः सिद्धो भवति । प्रजानन् "लक्षणहेत्वोः" पा. सू. ३।२।१२६ इति शतृप्रत्ययः ॥ १४ ॥
अनन्तरं श्रुतिवाक्यम् । लोकस्यादिं हेतुं स्वर्ग्यमिति यावत् । तमग्निमुवाच । यल्लक्षणा इष्टकाश्चेतव्या यत्संख्याका येन प्रकारेण चेतव्या- स्तत्सर्वमुक्त्वानित्यर्थः । यावतीरिति पूर्वसवर्णश्छान्दसः । स च नचिके- तास्तच्छ्रुतं सर्वं तथैवानूदितवानित्यर्थः । शिष्यस्य ग्रहणसामर्थ्यदर्शनेन संतुष्टः सन्मृत्युः पुनरप्युक्तवान् ॥१५॥
संतुष्यन्महामना मृत्युर्नाचिकेतसमब्रवीत् पुनश्चतुर्थं वरं प्रयच्छामीति । किं तत्राह मयोच्यमानोऽग्निस्तवैव नान्ना नाचिकेत इति प्रसिद्धो भविता । किंच विचित्रां सृङ्कां शब्दवतीं रत्नमालां स्वीकुर्वित्यर्थः ॥ १६ ॥
पुनरपि कर्म स्तौति । त्रिणाचिकेतः " अयं वाव यः पवते " इत्याद्यनुवा-