व्याख्याद्वयोपेता १।१।१९
[प्रकाशिका]त्यर्थः । स्पष्टोऽर्थः । न चैतत्प्रकरणगतानां स्वर्गशब्दानां मोक्षपरत्वे किं प्रमाणमिति चेदुच्यते । भगवतैव भाष्कृता स्वर्ग्यमग्निमिति मन्त्रं प्रस्तुत्य स्वर्गशब्देनात्र परमपुरुषार्थलक्षणो मोक्षोऽभिधीयते । " स्वर्गलोका अमृतत्वं भजन्ते " क. १।१।१३ इति तत्रस्थस्य जननमरणाभावश्रवणात् । " त्रिणाचिकेतस्त्रिभिरेत्य संधिं त्रिकर्मकृत्तरति जन्ममृत्यू " क. १।१।१६ इति च वचनात् । तृतीयवरप्रश्ने नचिकेतसा क्षयिफलानां निर्दिश्यमानतया क्षयिफलमुखेन नचिकेतसा क्षयिष्णुस्वर्गफलसाधनस्य प्रार्थ्यमानत्वानुपपत्तेः । स्वर्गशब्दस्य प्रकृष्टसुखवचनतया निरवधिकानन्दरूपमोक्षस्य स्वर्गशब्दवाच्यत्वसंभवादिति करणतस्तात्पर्यतश्च प्रतिपादितत्वान्न शङ्कावकाशः । ननु " स्वर्गे लोके न भयं किंचनास्ति न तत्र त्वं जरया बिभेति । उभे तीर्त्वाशनायापिपासे शोकातिगो मोदते स्वर्गलोके " क. १।१।१२ “ स त्वमग्निं स्वर्गमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम् । स्वर्गलोका अमृतत्वं भजन्त एतद्द्वितीयेन वृणे वरेण " क. १।१।१३ इति द्वितीयवरप्रक्ष्नमन्त्रद्वये चतुरभ्यस्तस्य स्वर्गशब्दस्य मोक्षपरत्वं किं मुख्यया वृत्योतामुख्यया । नाद्यः । " स्वर्गपवर्गमागाभ्यां " " स्वर्गापवर्गयोरेकं न स्वर्गं नापुनर्भवं " " स स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वात् " जै. सू.१।३।१५ इत्यादिप्रयोगेष्वपवर्गप्रतिद्वंद्विवाचितया लोकवेदप्रसिद्धस्य स्वर्गशब्दस्य मोक्षवाचित्वाभावात् ।
ध्रुवसूर्यान्तरं यत्तु नियुतानि चतुर्दश ।
स्वर्लोकः सोऽत्र कथितो लोकसंस्थानचिन्तकैः ।
इति पुराणवचनानुसारेण सूर्यध्रुवान्तर्वर्तिलोकविशेषस्यैव स्वर्गशब्दवाच्यतया तत्रैव लौकिकवैदिकव्यवहारदर्शनेन मोक्षस्थानस्यातथात्वात् । नाप्यमुख्ययेति द्वितीयः पक्षः । मुख्यार्थे बाधकाभावात् । किमत्र प्रश्न्वाक्यगतं जरामरणराहित्यामृतत्वभाक्त्वादिकं बाधकमुत प्रतिवचनगतजरामृत्युतरणाघुत क्षयिस्वर्गस्य सर्वकामविमुखनचिकेतःप्रार्थ्यमानत्वानुपपत्तिर्वा । नाद्यः । स्वर्गलोकवासिनां जरामरणक्षुत्पिपासाशोकादिराहित्यस्यामृतपानादमृतत्वप्राप्तेश्च पुराणेषु स्वर्गस्वरूपकथनप्रकरणेषु दर्शनात् । 'आभूतसंप्लवस्थानममृतत्वं हि भाष्यते ' इति स्मरणात् । अत्रैव " अजीर्यताममृतानामुपेत्य " क.१॥१॥२८ इति मृत्यावप्यमृतशब्दप्रयोगदर्शनाच्च । स्वर्गलोकवासिनामेव ब्रह्मोपासनद्वारा " ते ब्रह्मलोके तु परान्तकाले "