स होवाच पितरं तत कस्मै मां दास्यसीति । द्वितीयं |
['शांकरभाष्यम्] अप्रजननसमर्था जीर्णा निष्फला गाव इत्यर्थः । यास्त
एवंभूता गा ऋत्विग्भ्यो दक्षिणाबुध्द्या ददत्प्रयच्छन्ननन्दा अनानन्दा असुखा नामेत्येतद्ये ते लोकास्तान्स यजमानो गच्छति ॥ ३ ॥
तदेवं क्रत्वसंपत्तिनिमित्तं पितुरनिष्टं फलं मया पुत्रेण सता निवारणी-
यमात्मप्रदानेनापि क्रतुसंपत्तिं कृत्वेत्येवं मत्वा पितरमुपगम्य स होवाच
पितरं हे तत तात कस्मै, ऋत्विग्विशेषाय दक्षिणाथे मां दास्यासेि
प्रयच्छसीत्येतत् । एवमुक्तेन पित्रोपेक्ष्यमाणेऽपि द्वितीयं तृतीयमप्युवाच
कस्मै मां दास्यासि कस्मै मां दास्यसीति । नायं कुमास्वभाव इति कुद्धः
सन्पिता तं ह पुत्रं केिलोवाच मृत्यवे वैवस्वताय त्वा त्वां ददामीति ॥ ४ ॥
स एवमुक्तः पुत्र 'एकान्ते परिदेवयांचकार । कथमित्युच्यते-बहूनां
[ प्रकाशिका ] श्रद्धाप्रकारमेव दर्शयति । पीतमुदकं याभिस्ताः पीतोदकाः
जग्धं भक्षितं तृणं याभिस्ता जग्धतृणाः । दुग्धो दोहः क्षीराख्यो याभिस्ता
दुग्धदोहाः । निरिन्द्रिया अप्रजननसमर्था जीर्णा निप्फला इति यावत् ।
या एवंभूता गावस्ता ऋत्विग्भ्यो दक्षिणाबुच्द्या ददत्प्रयच्छन् । अनन्दा
असुखास्ते शास्त्रप्रसिद्धा लोकाः सन्ति नाम खलु । तत्र स यजमानो
गच्छत्येवममन्यतेत्यर्थः ॥ ३ ॥
दीयमानदक्षिणावैगुण्यं मन्यमाने नचिकेताः स्वात्मदानेनापि पितुः
ऋतुसादुण्यमिच्छन्नास्तिकाग्रेसरः पितरमुपगम्योवाच तात कस्मा ऋत्विंजे
दक्षिणार्थ मां दास्यसीति । स एवमुक्तेनापि पित्रोपेक्ष्यमाणोऽपि द्वितीयं
तृतीयमपि पर्यायं कस्मै मां दास्यसीत्युवाच । एवं निर्विद्यमानः पिता
कुपितस्तं पुत्रं मृत्यवे त्वा ददामीत्युक्तवान् । एवमुक्तोऽपि पुत्रो विगतसाध्व-
सशोकः पितरमुवाच । सर्वेषां मृत्युसदनगन्तृणां पुरतो मध्ये वा गच्छामि
न तु मन्थरः पश्चात् । मृत्युसदनगमने न कोऽपि मम विचार इति भावः ॥४॥
किं तर्हि तत्राह -मृत्युर्मयाद्य यत्करिष्यति तत्तादृशं यमस्य कर्तव्यं