अनुपश्य यथा पूर्वे प्रतिपश्य तथापरे । सस्यमिव |
[ शांकरभाष्यम् ] शिष्याणां पुत्राणां वैमि गच्छामि प्रथमः सन्मुख्यया
शिष्यादिवृत्येत्यर्थः। मध्यमानां च बहूनां मध्यमयैव वृत्त्यैमि। नाधमया कदाचि-
दपि । तमेवं विशिष्टगुणमपि पुत्रं मां मृत्यवे त्वा ददामीत्युक्तवान्पिता । स
किंस्विद्यमस्यं कर्तव्य प्रयोजनं मया प्रत्तेन करिष्यति यत्कर्तव्यमद्य । नूनं
प्रयोजनमनपेक्ष्यैव क्रोधवशादुक्तवान्पिता । तथापि तत्पितुर्वचो मृषा मा
भूदित्येवं मत्वा परिदेवनापूर्वकमाह पितरं शोकाविष्टं किं मयोक्तमिति ॥५॥
अनुपश्यालोचय निभालयानुक्रमेण यथा येन प्रकारेण वृत्ताः पूर्वेऽति-
क्रान्ताः पितृपितामहादयस्तव । तान्दृष्टा च तेषां वृत्तमास्थातुमर्हसि वर्त-
मानाश्चापरे साधवो यथा वर्तन्ते तांश्च प्रतिपश्यालेोचय तथा । न च तेषु
मृषाकरणं वृत्तं वर्तमानं वास्ति । तद्विपरीतमसतां च वृत्तं मृषा करणम् ।
न च मृषा कृत्वा कश्चिदजरामरो भवति । यतः सस्यमिव मर्त्यो मनुष्यः
पच्यते जीर्णो म्रियते । मत्वा च सम्यमिवाजायत आविर्भवति पुनरेव-
मनित्ये जीवलोके किं मृषाकरणेन । पालयात्मनः सत्यम् । प्रेषय मां
यमायेत्यभिप्रायः ॥ ६ ॥
[ प्रकाशिका ] किं वा पूर्णकामस्य मृत्योर्मीदृशेन बालिशेन किं प्रयोजनं
स्याद्येन ऋत्विग्भ्य इव तस्मै मदर्पणं सफलं स्यात् । अत एतदेवानुशोचा-
मीति भावः ॥ ५ ॥
साध्वसरोषावेशहीनमीदृशं पुत्रवाक्यं श्रुत्वा क्रोधावेशान्मया मृत्यवे
त्वा ददामीत्युक्तं नेदृशं पुत्रं मृत्यवे दातुमुत्सह इति पश्चात्तप्तहृदयं
पितरमालोक्योवाच । पूर्वे पितामहादयो यथा मृषावादं विनैव स्थिता यथा
चापरे साधवोऽद्यापि तिष्ठन्ति तान्वीक्ष्य तथा वर्तितव्यमिति भावः ।
मर्त्यः सस्यमिवाल्पेनापि कालेन जीर्यति जीर्णश्च मृत्वा सस्यमिव पुनराजायते।
एवमनित्ये जीवलोके किं मृषाकरणेन । पालय सत्यं प्रेषय मां मृत्यव इति
भावः ॥ ६ ॥
१ पुत्राणां वेत्यस्मात्परं शिष्यादीनामिति पाठः । २ वर्तमानमित्यस्मात्परं भविष्यदिति पाठः । ३ मृत्वा चेत्यस्मात्परं तत एवेति पाठः ।