त७५ ह कुमार५ सन्तं दक्षिणासु नीयमानासु |
[ शांकरभाष्यम्] तं ह नचिकेतसं कुमारं प्रथमवयसं सन्तमप्राप्तप्रजननशक्ति
बालमेव श्रद्धास्तिक्यबुद्धि पितुर्हितकामप्रयुक्ताविवेश प्रविष्टवती। कस्मिन्काल
इत्याह-ऋत्विग्भ्यः सदस्येभ्यश्च दक्षिणासु भीयमानासु विभागेनोपनीय
मानासु दक्षिणार्थासु गोषु स आविष्टश्रद्धो नचिकेता अमन्यैत[१] ॥ २ ॥
कथमित्युच्यते-पीतोदका इत्यादिना । दक्षिणार्था गावो विशे
प्यन्ते । पीतमुदकं याभिस्ताः पीतोदकाः । जग्धं भक्षितं तृणं याभिस्ता
दुग्धो दोहः क्षीराख्येो यासां ता दुग्धदोहाः । निरिन्द्रिया
[ प्रकाशिका ] तं कुमारं सन्तं बालमेव सन्तमृत्विग्भ्यो दक्षिणासु गोषु नीय
मानासु सतीषु श्रद्धास्तिक्यबुद्धिः पितु र्हितकामप्रयुक्ताविवेशाविष्टवती
यद्यपि यदानतिकरं द्रव्यं तद्दक्षिणेत्युच्यत एका चासौ ऋतावानतिरिति
तदुपाधिको दक्षिणाशब्द एकवचनान्ततामेव लभते । अत एव भूनामकैका
हक्रतौ तस्य धेनर्दक्षिणेत्यत्र कृत्स्रस्य गवाश्वादेः प्रकृतस्य दाक्षिण्यस्य
निवृत्तिरिति * तस्य धेनुरिति गवाम् ' जै० १ १४ । ९६
इति दाशमिकाधिकरणे स्थितं तथापि दक्षिणाशब्दोऽयं भृतिवचनः स
च कर्मापेक्षयापि प्रवर्ततेऽस्मिन्कर्मणीयं भृतिरिति, कत्रंपेक्षयापि प्रवर्ततेऽ
स्मिन्कर्मण्यस्य पुरुषस्येयं भृतिरिति । ततश्च ऋत्विग्बहुत्वापेक्षया दक्षिणा
बहुत्वसंभवाद्दक्षिणास्विति बहुवचनमुपपद्यते । अत एव ऋतपेये–“औी
दम्बरः सोमचमसो दक्षिणा प्रियाय सगोत्राय ब्रह्मणे देयः ? इत्यत्रै
कवाक्यतापक्षे ब्रह्मभागमात्रेऽपि दक्षिणाशब्दस्यावयवलक्षणामन्तरेण मुख्य
त्वोपपत्तेस्तन्मात्रबाध इत्युक्तं दशमे “यदि तु ब्रह्मणस्तदूनं तद्विकारः स्यात्”
जै. सू. १०॥१९॥७२ इत्यधिकरणे । ततश्च क्रत्वपेक्षया दक्षिणैक्येऽपि
ऋत्विगपक्षेया दक्षिणाभेदसंभवाद्दक्षिणास्विाति बहुवचनस्य नानुपपत्तिरिति
द्रष्टव्यम् ॥ २ ॥
- ↑ अमन्यतेत्यस्मात्परमालोचितवानिति पाठः ।