[ शांकरभाष्यम्] इति । पूर्वोक्तविशेषणान्मुमुक्षुन्वा परं ब्रह्म गमयतीति
ब्रह्मगमयेितुत्वेन योगाद्रह्मविद्योपनिषत् । तथा च वक्ष्यतेि-* ब्रह्म प्राप्तो
विरजोऽभूद्विमृत्युः'क. ६॥१८इति । लोकादिब्रह्मजज्ञो योऽग्स्तिद्विषयाया
वेिद्याया द्वितीयेन वरेण प्राथ्यमानाया स्वर्गलोकफलप्राप्तिहेतुत्वेन गर्भ
वासजन्मजराद्युपद्रववृन्दस्य लोकान्तरे पौनःपुन्येन प्रवृत्तस्यावसादयितृत्वेन
शैथिल्यापादनेन धात्वर्थयोगादििवद्याप्युपनिषदित्युच्यते । तथा च
वक्ष्यति –“ स्वर्गलोका अमृतत्वं भजन्ते ? क. १ । १३ इत्यादि । ननु
चोपनिषच्छब्देनाध्येतारो ग्रन्थमप्यभिलपन्ति । उपनिषदमधीमहेऽध्यापयाम
इति च । एवं नैष दोषः । अविद्यादिसंसारहेतुविशरणादेः सदिधात्वर्थस्य
ग्रन्थमात्रेऽसंभवाद्विद्यायां च संभवाद्रन्थस्यापि तादथ्येन तच्छब्दत्वो
पपत्तेः । आयुर्वे घृतमित्यादिवत् । तस्माद्विद्यायां मुख्यया वृत्योपनिष
च्छब्दो वर्तते ग्रन्थे तु भक्त्येति[१] । एवमुपनिषन्निर्वचनेनैव विशिष्टोऽधिकारी
विद्यायामुक्तः । दिषयश्च विशिष्ट उक्तो विद्यायाः परं ब्रह्म प्रत्यगात्म
भूतम् । प्रयोजनं चास्या उपनिषद् आत्यन्तिकी संसारनिवृत्तिर्बह्मप्राप्ति
लक्षणा । संबन्धचैवंभूतप्रयोजनेनोक्तः । अतो यथोक्ताधिकारिविषयप्रयो
जनसंबन्धाया विद्यायाः करतलन्यस्तामलकवत्प्रकाशकत्वेन विशिष्टाधिका
ििवषयप्रयोजनसंबन्धा एता वलुये भवन्तीति । अतस्ता यथाप्रतिभानं
व्याचक्ष्महे । तत्राख्यायिका विद्यास्तुत्यर्था । उशन्कामयमानो. ह वा इति
वृत्तार्थस्मरणार्थो निपातौ । वाजमन्त्रं तद्दानादिनिमित्तं श्रवो यशो यस्य स
वाजश्रवा रूढितो वा तस्यापत्य वाजश्रवसः किल विश्वजिता सर्वमेधेनेजे
तत्फलं कामयमानः । स तस्मिन्क्रतौ सर्ववेदसं सर्वस्वं धनं ददौ दत्तवान् ।
तस्य यजमानस्य ह नचिकेता नाम पुत्रः किलास बभूव ॥ १ ॥
[ प्रकाशिका ] पातैौ । फलमिति शेषः । वाजश्रवसः । वाजेनानेन दाना
दिकर्मभेतन श्रवः कीर्तिर्यस्य स वाजश्रवास्तस्यापत्यं वाजश्रवसः । रूढिव
वाजश्रवस इति । स किलार्षिर्विश्वाजता सर्वस्वदाक्षिणेन यजमानस्तस्मिन्क्रतैौ
सर्ववेदसं सर्वस्वं ददौ दत्तवानित्यर्थः । उशन्नित्यनेन कर्मणः काम्यत्वाद्द
क्षिणासाद्गुण्यमावश्यकमिति सूच्यते । आस बभूव । “छन्दस्युभयथा' पा.सू.
३॥४॥११७ इति लिटः सार्वधातुकत्वात् “ स्वस्तये ताक्ष्र्यम्' इत्यादि
वदस्तेभावाभावः ॥ १ ॥
- ↑ भक्त्येति स्थाने भाक्त इति पाठः ।