१५९ काठकोपनिषद्भाष्यद्वये २।२।११ दुःखित्वमिति भाव । अविद्यायां प्रतिबिम्बितश्चिद्धातुरज्ञो भ्रान्तो भवति। भ्रान्तश्च कामादिदोषप्रयुक्तः कर्म कुरुते तन्निमित्तं च दुःखं स्वात्मन्यध्यस्यति । परमात्मा त्वविद्यारहितत्वाहुःखसाधनशून्यत्वान्न दुःखी ततो दुःरव्यभेदरूपो हेतुर्न पूर्वोक्तानुमानप्रयोजक इत्याह-लोको हीति । चैतन्यस्येोपाधिस्व- रूपेणाध्यासाश्रयत्वेऽपि निरुपाधिकबिम्बकल्पब्रह्मरूपेणाध्यासानाश्रयत्वान्न दुःखित्वप्राप्तिरित्यर्थः ॥ ११ ॥ [ प्रकाशिका ] [ पृ. ७५ ] स्वेतरेत्यादि । स्वमात्मा तदितरे ये समस्ताः पदार्थास्तद्वहिर्भूतत्वादित्यर्थः ॥ ११ ॥ २।२।१२ [शांकरभाष्यम्][ पृ.७५]स्वापेक्षया परस्योत्कर्षदर्शनं पारतंत्र्यं तथाच स्वस्य हीनत्वं दुःखकारणं लोके प्रसिद्धं तदुभयाभावान्न परमात्मनो दुःखित्वं ततोऽदुःखिपरमात्मप्राप्तिः परमपुरुषार्थो भविष्यतीत्याह--किंचेति । नहीति । शरीरमात्मन आधारो नेत्यर्थ । आदर्शस्थमिति । आदर्शो मुखम्याधारो न किन्तु मुखप्रतिबिम्बमादर्शे दृश्यते तथाप्यादर्शस्थं मुखमिति लोके व्यवहारस्तद्वच्छरीरस्थ आत्मेति व्यवहार ॥ १२ ॥ [ प्रकाशिका ] समाभ्यधिकरहित इति । न कोऽपीक्ष्वेरण तुल्यो न वा तदधिक । वशवर्तिप्रपंचक इति । बहुव्रीहि ॥ १२ ॥ २ । २ । १३ [ शांकरभाष्यम् ] परमात्मन्युपपत्तयः प्रदर्श्यन्ते—नित्य इति । सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् ’ इति श्रुतेरकृताभ्यागमकृत- विप्रणाशप्रसंगपरिहाराच्च कल्पान्तरीयपदार्थानां प्रलये लीयमानानां कल्पा- न्तरे सजातीयरूपेणोत्पत्तिः स्वीक्रियते । सा चोत्पतिर्विनाशिपदार्थानां शक्ति- शेषाङ्गीकारं विना न संभवति । यतो यदि तत्तत्पदार्थशक्तिशेषः स्यात्तदैव तस्मात्पदार्थशक्तिशेषात्कल्पान्तरे पूर्वसजातीयाः पदार्थाः संभवेयुरिति । एवंच शक्तिशेषोऽवश्यमंगीकार्य । तस्य चाधारं विना प्रलयेऽसंभवात्त- दाधारभूतः परमात्मावश्यं स्वीकार्यः । चेतनानामिति । ब्रह्मादिशब्द- वाच्यानां संघातानां वा चेतयितृत्वं यन्निमित्तं सोऽस्ति परमात्मेत्यर्थः । सेवाफलवत्कर्मफलं यल्लभ्यते तदपि कर्मफलनिरीक्षकमीश्वरं गमयतीत्याह-- किंचेति ॥ १३ ॥
पृष्ठम्:काठकोपनिषत्.djvu/१८१
दिखावट