पृष्ठम्:काठकोपनिषत्.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२।२।१४ बालबोधिनी १६० [ शांकरभाष्यम् ] [पृ.७६] परमानन्दे विद्वदनुभवोऽपि प्रमाणमि- त्याह--यत्तदात्मविज्ञानमिति । विद्वत्प्रत्यक्षत्वादसंभावनयात्मदर्शनं न जिहासितव्यं किंतु श्रद्दधानतया विचारयितव्यमित्याह-कथं न्विति १४ २।२।१५ [ शांकरभाष्यम्] जलोल्मुकादीति । जलं, तप्तजलं, उल्मुकं- अलातं , आदिपदेनायःपिण्डायो गृह्यन्ते ॥ १५ ॥ [प्रकाशिका] [पृ.७६] योगयुगालम्बनायेति । योगयुजो योगिनस्तेषा- माश्रयनिमित्तम् । प्रमाणप्रतिपन्नेत्यादि । प्रमाणेन प्रतिपन्नो घटितो यो गृहा- श्रयो हृदयगुहाश्रयो दिव्यमङ्गलविग्रहः । अयमर्थः । आदित्यवर्णे तमसः पर स्तात्। परमेश्वररूपमिति क्ष्वेताश्वतरोपनिषत्प्रमाणेन सदैकरूपरूपायेति वाक्ये सदैकरूपं समानं रूपं यस्येति कथनरूपप्रमाणाच्च परमात्मनो योगिजनाश्रय- निमित्तं हृदयगुहाश्रयीभूतः कश्चन दिव्यो मंगलावहश्च देहो वर्तते तद्वान् स सर्वातिशायितेजोवानिति । [ पृ. ७७ ] पौर्वापर्यनियम इति । अन्यथासिाद्धिशून्यस्य नियता पूर्ववर्तिता । कारणत्वं भवेत्तस्य’ इति भाषा परिच्छेदोक्त्यनुसारं पूर्वे-कारणं, अपरं—कार्ये तद्भावः-कार्यकारणभावः । पौर्वापर्येत्यत्र कार्यकारणेत्यत्र वाल्पाच्तरत्वात्पूर्वनिपातः । यथासंख्यमन्वये त्व- र्थवैपरीत्यं स्यात् । भामुपयुज्येति । यस्य परमात्मनो भामुपयुज्य प्रकाशस्यो- पयोगं कृत्वादित्यो भातीत्यर्थः । आमिभूतत्वमिति । तस्याधिकप्रकाशत्वादि- त्यर्थः । तेजोऽन्तरोत्पत्ताविति । अन्यत्तेजस्तेजोऽन्तरं चक्षुरादितेजोऽनुग्रा- हकं चन्द्ररूपं तेजोऽन्तरं तदुपादानद्रव्यं सूर्यरूपं तेजस्तदनुग्राहकत्वं परमात्म- भासि परमात्मप्रकाशे । तृतीयपादार्थ इति । तमेव भान्तमित्यादिरूपस्तू- तीयपादः । चाक्षुषेत्यादि । चाक्षुषकिरणानुग्राहकचन्द्रादिवदुत्पन्नमपि तेजः स्वकार्यकरणे चक्षुरादीनां घटादिप्रकाशने सामर्थ्यं भवत्विति तदाधाय- कत्वं तत्स्थापकत्वरूपो योऽनुग्रहस्तत्कारित्वं तस्य भासेत्यादिचतुर्थपाद- स्यार्थः । अयं भाव । परमात्मा चक्षुरादि चन्द्रसूर्यादि वा तेज उत्पादय- ति तस्मिन् घटपटादिप्रकाशकत्वरूपं सामर्थ्ये च निदधाति । इदानीमद्वैति- मतं खण्डयते--अधिष्ठानेत्यादिना । तमेव भान्तमनुभातीति तृतीयपादे यच्छांकरभाष्यं तत्रतु नैवमर्थः । अन्यत्र कस्यचिदुक्तिः स्यात्सा मृग्या । अध्यस्तप्रपंचे यद्धि भानं तदधिष्ठानभूतब्रह्मभानमूलं न तद्धतिरिक्तमिति