पृष्ठम्:काठकोपनिषत्.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२।२।६ बालबोधिनी २ । २ । ६ [ शांकरभाष्यम्] परलोकविषये य आसीत्संशयस्तन्निवृत्त्यर्थमुच्यते- हन्तेदानीमिति ॥ ६ ॥ [ प्रकाशिका ] [ पृ. ७२ ] स्वगतामिति । अहो अहं त्वां गुह्य ब्रह्म प्रवक्ष्यामीति यमस्याश्चर्यम् ॥ ६ ॥ २ । २ । ७ [ शांकरभाप्यम् ] विज्ञानं उपासनं नग्नस्रीदर्शनादि च । संभवाः- प्रजाः ॥ ७ ॥ २ । २ । ८ [ प्रकाशिका ] [ पृ. ७३ ] णमुलन्तामिति । कमित्वा कमित्वेति त्त्क्वाप्रत्ययान्तस्यार्थे कामं काममिति । छन्दत :इच्छात: । प्रत्यक्ता-ख- ण्डिता । अद्वैतिमते मुक्तपरमात्मनोरभेदस्तं निराकर्तुमेतद्वाक्यं विशिष्टा- द्वैतमते कदापि मुक्तपरमात्मनोरभेदो न भवति ॥ ८ ॥ २ । २ । ९ [ शांकरभाष्यम् ] [ पृ. ७३] तार्किका हि जन्ममरणकारणानां प्रति- प्राणिनियमाघुगपत्तेषामप्रवृत्तेश्च पुरुषबहुत्वं सत्वरजस्तमोगुणविपर्ययाच्च नानात्मानो व्यवस्थिता नतु पुरुषैकत्वमिति प्रतिपादयन्ति तन्निरासार्थमस्य मंत्रस्यावतार इत्याह-अनेकतार्किकेति । अनृजुबुद्धीनामिति । कुटिलचे- तसामित्यर्थः । वेदान्तमतानुसारित्वं सरलबुद्वित्वं तद्विरुद्धमतानुसारित्वं कुटिलबाद्वित्वमिति भाव । दार्वादिदाह्यभेदामिति । काष्ठादिदाह्यपदार्था नित्यर्थः । [पृ. ७४] प्रतिरूप इति । उपाध्यनुसारमित्यर्थः । चतुष्को- णत्वादिधर्मके दारुणि वन्हिरपि तथैव लक्ष्यत इत्यर्थः ॥ ९ ॥ [प्रकाशिका] [पृ. ७४] त्रिवृत्करणकृतव्याप्त्येति । छान्दोग्योप- निषदितेतेजोऽसजत’ इत्यादिना तेजोऽबन्नानां तेजोजलपृथिव्यपरपर्यायाणां सृष्टिमुक्त्वा तदेकीकरणं पंचीकरणप्रकारानुसारमेवाम्रातं तासां त्रिवृतं त्रिवृतमकैकां करवाणीत्युक्त्या । ततश्च तेज एव सर्वषदार्थेषु व्याप्तं तस्यैव पर्यायवाचकोऽग्निशब्दोऽत्र गृहीतः। प्रत्युप्तमिति । ‘टुवप् बीजसन्ताने' इति धातोः क्तान्तस्य रूपम् । प्रतिसंक्रान्तं-प्रतिबिम्बितम् ॥ ९ ॥ २।२।११ [शांकरभाष्यम्] सर्वात्मत्व इति। दुःखिना जीवेन साकमैक्येऽस्यापि