२।१।१ सत्ताया अभावात् । आवृत्तचक्षुरिति । सर्वविषयेभ्यो व्यावृत्तेन्द्रिय इत्यर्थः। अनेन वैराग्यादिसंपतिर्बोध्यते ॥ १ ॥ [ प्रकाशिका ] [ पृ. ६१ ] लोकाभिप्रायमिति । लोकशब्दमध्याह्न- त्य पराडिति तस्य विशेषणं कर्तव्यम् । बहिर्दर्शनशीलो लोक आत्मानं न पश्यतीत्यर्थः । पर्वस्मिन्पक्षेतु पराडिति छान्दसैकवचनघटितमिन्द्रियाणी- त्यस्य विशेषणम् । पराञ्चीन्द्रियाण्यात्मानं न पश्यन्तीत्यर्थः । आद्यपक्षेतु न त्वन्तरात्मानमित्यर्थः । पुरुषधौरेयः-पुरुषश्रेष्ठः ॥ १ ॥ २। १ । २ [ शांकरभाष्यम् ] स्वाभाविकमिति । स्वयमेव जायमानं शास्त्रगुर्वाघ- नपेक्षमित्यर्थः । देहोन्द्रियादीति । देहेन्द्रियादीनां संयोगस्य यो वियोगः स लक्षणं स्वरूपं यस्येत्यर्थः । अनवरतः–निरन्तर: [ पृ. ६२] अध्रुव- मिति । पारिमितकालपर्यन्तं स्थायित्वादनित्यम् । ब्राह्मणा हति । ब्राह्मण- पदेन ब्रह्मविदो बोध्यन्ते । जन्मना जायते शद्र संस्कारैद्वित उच्यते । वेदाभ्यासाद्भवेद्विप्रो ब्राझ जानाति ब्राहाण हत्युक्त्तेः ॥ २ ॥ [प्रकाशिका ] यद्वेति । अस्मिन्पक्षे त इति वाला इत्यस्य विशेषणम् । अथशब्द इति । अथशब्देन प्रकृतो योऽर्थोऽज्ञानिविषयकस्ताद्भिन्नो ज्ञानि- विषयकोऽर्थो ग्राह्य इत्याह--प्रकृतविपयेत्यादि । द्रष्टव्यमिति । परमा- त्मैव प्रत्यक्तत्वं सर्वजीवस्थाया अहन्ताया: ग्थानत्वेन मुख्याहमर्थत्वादि- त्यथे: ॥ २ ॥ १ । १ । ३ [ शांकरभाष्यम् ] कथं तदधिगम इति । किं वैदिकज्ञानद्वारा परोक्ष- तयात्मनोऽधिगमोऽथवा घटपटाद्विवत्प्रत्यक्षत्वेनेति प्रक्ष्नार्थ: । येनेति । मूढ- द्दष्टचा रूपरसादिविज्ञानं यधपि शरीराभेदेन प्रभिद्धं तथापि सज्ञानां तद्दे- हव्यतिरिक्त्तेनैव केनचिद्भवतीति प्रसिद्धमतोऽत्र प्रसिद्धपरामर्शकेन सर्व- नास्रोक्तिः । मैथुनानिति । मिथुनं द्वन्द्वं तदेव मैथुनं तन्निगित्तान्। आयुर्वै घृतमित्यादौ यथायुःसाधने धृत आयुरित्युक्तिस्तद्वन्मिथुननिमित्तसुखादि- प्रत्ययेषु मैथुनानित्युक्तिलाक्षणिकी । न त्वेवमिति । देहादिविलक्षणेनाहं जानामीति कोऽपि न मनुते इति पूवपक्षो न युक्त इत्यर्थः । देहादिसंघा- तस्येति । गुणगुणिनोरभेद इति न्यायेन देहादिसंघातस्य शब्दादिस्वरूप-
पृष्ठम्:काठकोपनिषत्.djvu/१७२
दिखावट