पृष्ठम्:काठकोपनिषत्.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४९ काठकोपानिषद्भाप्यद्वये १।३।१५ आपेक्षिकं नित्यत्वामीति । घटापेक्षया महाप्रलयपर्यन्तं स्थायित्वेन यथा पृथिवी नित्या तथापेक्षिकं नित्यत्वं ब्रह्मणो न । तस्य महाप्रलयेऽपि विद्यमानत्वात् ॥ १५ ॥ [ प्रकाशिका ] [ पृ. ५८ ] कालवादिति । कालो न व्येतीत्य- भिमानः । वस्तुतः कालोऽपि व्ययी । अपचयशून्यं—क्षयशून्यम् ॥१५॥ १ । ३ । १६ | शांकरभाष्यम् ] ब्रह्मलोक इत्यत्र न षष्ठीसमासो द्वैतापत्तेः । किन्त्व- वधारणापूर्वपदः कर्मधारयस्तदाह-ब्रझैव लोक इति ॥ १६ ॥ इति प्रथमोऽध्यायः समाप्तः ॥ अथ काठकोपनिषदि द्वितीयाध्याये प्रथमा वल्ली । २ । १ । १ [ शांकरभाष्यम् ] [ पृ. ६० ] अनाद्यविद्यारूपः प्रतिबन्धः पूर्वमक्तो- ऽधुनागन्तुकप्रतिबन्धः प्रदर्श्यत इति पूर्वोत्तरग्रन्थयोः सम्बन्धमाह--एष सर्वेष्वित्यादिना । इत्युक्तामिति । अनेन वाक्येनानाद्यविद्याप्रतिबन्ध उक्तः । यस्मादिति । स्वयम्भुवा श्रोत्रादीनामिन्द्रियाणां यो बहिर्दर्शनरूपः स्वभावो निरमायि तदेव तेषां हिंसनम् । अयं भाव । यदीन्द्रियाणि मया न्तर्मुखतयान्तर्दर्शनशीलानि क्रियेरंस्तर्हि तान्यात्मनिष्ठानि भवेयुस्ततश्चामृत- स्वरूपाणि भवेयुरिति चिन्तयित्वा स्वयंभुवोन्द्रियाणि बहिर्दर्शनशीलानि कृतान्येतदेवेन्द्रियाणां हिंसनम् । नान्तरात्मन्निति । अत्र द्वितीयाविभाक्ति- लोपक्ष्छान्दसः । कश्चिन्नदीतरणनिपुणो नदीरयविमुखं स्वकौशलवशात्तरति तद्वत्कोऽपि धीरः प्रत्यगात्मनि रूढ इत्याह-प्रतीच्येवेति । व्युत्पत्तिपक्षे- ऽपीति । रूढमर्थ परित्यज्याप्लृ व्याप्ताविति धातोर्मन्प्रत्ययदृष्टयात्मश- ब्दार्थे क्रियमाणेऽपीत्यर्थ: [ पृ. ६१ ] यच्चाप्नोतीति । अत्र सर्वत्र यत्प- देन यस्मादित्यर्थो ग्राह्यः । यस्मादयं सर्वान्पदार्थानाप्तोति यस्मात्सर्वविष- यान् गृण्हाति यस्माद्भुड़क्त्ते यस्मादस्य संततः प्रवाहरूपेण विद्यमानो भाव- स्तस्मादयमात्मेति कीर्त्यते । सर्वविधयानादत्त आत्मन्येव संहरति तेनाय- मात्मा जगत उपादानमिति लभ्यते । तथा विषयानत्तीत्यनेनात्मनि स्वचै- तन्याभासेनोपलब्धृत्वं लभ्यते । यस्मादस्य संततो भावो घटपटादेः कल्पि- तवस्तुनस्त्वस्यैव सत्तामनु सत्ता । अधिष्ठानसत्ताव्यतिरेकेण कल्पितवस्तुनः