पृष्ठम्:काठकोपनिषत्.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५१ काठकोपनिषद्भाष्यद्वये २|१।३ त्वं ज्ञेयन् । न युक्तं विज्ञातृत्वमिति । देहसम्बन्धिनः शब्दादयः स्वात्मा- नं स्वव्यतिरिक्त्तं च न जानीयु: २ाव्दादित्वाद् दृश्यत्वाच्च । बाह्यशब्दा- दिवत् । यथा बाह्याः शब्दादयः स्वस्वरूपत्वेनात्मानं दृश्यत्वेन च स्वव्य- तिरिक्तं द्रष्टारं न जानन्ति तद्वद्दैहिका अपि शब्दादयो न जानन्तीत्यर्थः । विपक्षे बाधकमाह--यदि हीति । येन लोहो दहतीति। लोहपिण्डो दहतीति प्रतीतौ लोहस्य दाहकत्वं येन कर्त्रा प्राप्तं सोभिरित्यर्थः ॥ ३ ॥

[ शांकरभाष्यम्] आहेति । प्रकारान्तरेणेति शेषः । [पृ.६३] पूर्व- वदिति । यच्छब्दाक्षेपसमाधानादि सर्व पूर्वमंत्रभाप्यवदित्यर्थः । विभुमिति। महच्छब्देन व्यापकरूणर्थस्य बोधनाद्विभुमित्यस्यैवमर्थः कर्तव्यः विशेषेण भवत्यम्मदिति विभुस्तं सर्वक्रम्पनाधिष्ठानभूतमित्यर्थः । आत्मभावेनेति । एतदादि परमात्मेत्यन्तं मत्वेत्यम्य कर्म । धीरः-साक्षात्काररूपधैर्यवान्॥४॥ २|१|५ [ शांकरभाष्यम् ] यः साधकः कर्मफलभोक्त्तृत्वोपलक्षितमात्मानं त्वंप- दलक्ष्यं कालत्रयेशित्वोपलक्षितत्तत्पदलक्ष्यं साक्षात्करोति ततः स आत्मानं नरकादिभयाद्रक्षितुं नेच्छतीति प्रकारान्तरेणाह--किंचेति । मध्यदमिति । मधु-कर्मफलम् । सामीप्यं चात्राभेदः । तेनाभेदेन वेदेत्यर्थः । इदं वर्तमान- कालम्याप्युपलक्षणमत आह-कालत्रयस्येति । आत्मन इति । कर्मणि षष्ठी । आत्मानमित्यर्थः । पूर्ववादिति । एतद्वै तदित्यस्य तृतीयमंत्रे योऽ- र्थ: कृत: स एवात्र ग्राह्य इत्यर्थः ॥ ५ ॥ [ प्रकाशिका ] [पृ.६३] निन्दार्थक उक्त इति । ’ गुपेर्निन्दायाम् ’। इति वार्तिकात् ॥ ५ ॥ २ | १ । ६ [ शांकरभाष्यम् | यः कश्चित्पूर्वं तपसो जातं पश्यति स प्रकृतं ब्रझौव पश्यतीत्यर्थः, [पृ.६४] शब्दादीनुपलभमानमिति । यद्यपि हिरण्यगर्भस्य प्रतिदेहं भोगाभावाच्छब्दादीनुपलभमानामिति वक्त्तु न शक्यते तथापि हिर- ण्यगर्भोऽन्त:करणांशेन जीवोपाधिरतो जीवतादात्म्यविवक्षया तथोक्तिः । यदिति । यथा लोके सुवर्णाज्जायमानं कुण्डलादि सुवर्णमेव भवति तद्वत् ब्रह्मणो जातो हिरण्यगर्भो ब्रहौत्नेति ज्ञेयम् ॥ ६ ॥