१४७ काठकोपनिषद्भाप्यद्वये १।३।११ स्य शक्तिलक्षणस्य निर्वाहाय तासांच शक्तीनां मायातत्त्वे समाहारो भवति ब्रह्मणोऽसंगत्वादिति समाहाररूपमव्यक्तमित्यर्थः । सांख्यकल्पितप्रधानाद्वै- लक्षण्यमाह-परमात्मनीति । ननु शक्तिरेकात्मा चैक इति सद्वितीयत्वा- पात्तिरित्याशङ्क्य तस्या आत्मव्थतिरेकेणासत्वं दृष्टान्तेनाह--वटकाणि- कायामिति । भाविवटवृक्षशक्तिमद्वटबीजं यथा स्वशक्त्या न सद्वितीयं तथा मायाशक्त्या ब्रह्मापि न सद्वितीगमित्यर्थः । यज्ज्ञानार्थमुत्तरोत्तरस्य परत्वमुपपादितं तद्वतारयति--तस्मादित्यादिना । नन्वात्मनः सूक्ष्मतर- त्वं वक्तुं न शक्यतेऽव्यक्तादपि दुर्विज्ञेयत्वात्कारणत्वरूपपरत्वं कथं कारणत्वे वाव्यक्तवाद्विकारित्वेनासत्वापत्तेरिति चेदधिष्ठानपरतन्त्रत्वादारोपस्याधिष्ठान- स्योपचारेणात्मनः कारणत्वमुच्यत इति न दोषः ॥ ११ ॥ १ | ३ | १२ [ शांकरभाष्यम् ] [ पृ. ५६] अनध्वगा इति । मार्गरहिता इत्यर्थः । स्तम्बः- तृण्वुशेषः । एतत्तृणप्रियत्वादेव इम्तिनः स्तम्बेरम इत्याख्या । संवृत इति । न प्रकाशत इत्यनेनान्वय । न प्रकाशते चेन्नास्त्येव स इति न मन्तव्यं लिङ्गदर्शनादित्याह-दर्शनक्ष्रवणादिकर्मेति । दर्शनश्रवणा- दीनि कर्माणि लिङ्गः:भूतान्यस्येत्यर्थः । नीवम्य प्रकाशत्वे ब्रह्मात्मत्वे सत्यपि यो ब्रह्मस्वरूपानवभासः स किंचित्प्रतिबन्धमूलकम्तच्च प्रतिबन्धकं मायैव न आविद्यामायच्छन्न इति । अविद्यापदेन ज्ञाचना श्यत्वं मायापदेन मिथ्यात्वं च बोध्यते । दृश्यमानमपीति । घटादिविषयवदात्मभिन्नत्वेन पुरोदृश्य- मानमपि ॥ १२ ॥ [प्रकाशिका] [पृ.५५] गुणत्रयमायातिरोहितत्वेनेति । सत्वादिगुणत्रय- विशिष्टमाययाच्छादितत्वेन । अभितवाह्यान्त:करणानां-अनिर्जितबाह्यान्तरे- न्द्रियाणाम् ॥ १२ ॥
१ | ३ | १३
[ शांकरभाष्यम् | वागिति । वाचमित्यर्थे । ’ सुपा सुलुक् ' पा. सू ७।१।३९ इत्यादिना प्रत्ययस्य लुक् । वाक्पदं सर्वेन्द्रियोपलक्षकं तेन सर्वे- न्द्रियाणि मनसि नियच्छेदित्यर्थः । मनआदीनां व्यापिका बुद्धिरतः सा तेषां प्रत्यगात्मा तदाह-प्रत्यक्त्तेपामिति | | पृ. ५७ ] प्रथमज इति । नन्वात्ममहच्छब्दाभ्यां व्यापकप्रत्यगात्मनोऽभिधानात्कथं प्रथमजे हिरण्य-