पृष्ठम्:काठकोपनिषत्.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।३।१३ बालबोधिनी १४८ गर्भे बुद्धौ व्यष्टिबुद्धेः प्रविलापनमित्याशङ्कय तदुत्तरपर्याये शान्त आत्मेति विशेषणात्प्रत्यस्तभितसर्वविशेषणवत्येतस्य लयप्रतिपादनात्तस्य ग्रहणं न विरुध्यते । नच व्यष्टिबुद्धेः समष्टौ लयश्चेत्तस्याः परमकारणे लयो वाच्य- स्तदन्तरेण निर्विशेषो लयः कथमिति वाच्यम्। आत्ममहच्छब्दाभ्यां सका- रणसूत्रहैरण्यगर्भबुद्धेर्यहान्न दोष इति भावः । मुख्य आत्मनीति । तं यच्छेदित्यन्वयः ॥ १३ ॥ [ प्रकाशिका ] बुद्ध्यात्मनोः सामानाधिकरण्यासंभवं मत्वाह-व्यधि- करणे इति । [ पृ. ९७ ] तदितिपदस्य तं कर्तारमित्यर्थो न संभवेदि- त्याह--व्यत्ययेनेति । भाषितमिति । भाप्यकृतेत्यनेन संबन्धः । ऊर्मयः षट् । शोकमोहौ जरामृत्यू क्षुत्पिपासे पडूर्मय इत्युक्ताः ॥ १३ ॥ १ । ३ । १४ [ शांकरभाष्यम्] [ पृ. ५८ ] एवं विषयदोषदर्शनेनाभ्यासेन च बाह्यान्त:करणव्यापारप्रविलापनेन प्रविलापयितुर्यत्फलं तदाह--एवमित्या- दिना । नामरूपकर्मत्रयम्—शब्दार्थक्रियात्रिकम् । मिथ्याज्ञानविजूम्भि- तामितेि । मिथ्याच तदज्ञानं च तेन विजूभितं विलासितम् । मरीच्युदका- दीति । यथा लौकिकः पुरुषो मरीच्यादिदर्शनेन तदुदकादि प्रविलाप्य स्वस्थो भवति तथा सर्वबाह्येन्द्रियव्यापाररहितः कर्तव्याभावात्प्रशान्तान्त:- करण: सन् कृतकृत्यो भवतीत्यर्थः । आत्मज्ञानाभिमुखा इति । श्रवणा- दितत्परा इत्यर्थः । घोररूपाया:–संसाररूपाया: । तीक्ष्णीकृतेति । पाषा- णादाविति शेष ॥ २४ ॥

१ । ३ । १५

[ शांकरभाष्यम् ] [ पृ. ५९ ] तत्रैकैकगुणापकर्पेणेति । पृथिव्यां गन्धादयः पञ्च गुणा: । जले गन्धरहिताश्चत्वार । तेजसि गन्धरसरहिता स्त्रयः । वायौ गन्धरसरूपरहितौ द्वौ । आकाशे च गन्धरसरूपस्पर्शरहित एकः शब्द एव । एवंच कारणे जलादौ पृथिव्यादिकार्यापेक्षया गुणन्यू- नता । तथैव क्रमेणाकाशादेः कारणभूते परे ब्रह्मणि सूक्ष्मत्वविशुद्धत्वनि- त्यत्वादिकं ज्ञेयमिति भाव । यावदाकाशामिति । आकाशमभिव्याप्ये- त्यर्थः । व्येति विकारं प्राप्नोति । कार्यद्वारा नाशे दृष्टान्तमाह--यथा कद- ल्यादेरिति । फलच्छेदात्प्राक्कदलीवृक्षं छिन्दन्ति । छिन्नफला कदली न दृष्टव्येति सांप्रदाय । एवं फलोद्रमः कदलीविनाशप्रयोजक इत्यर्थः ।