पृष्ठम्:काठकोपनिषत्.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।३।९ बालबोधिनी १४६ बोध्यत इति भावः । हिरण्यगर्भं व्यावर्तयति-वासुदेवाग्व्यस्योति । वासु- देव इत्याख्या यस्येति । वासयति भूतानि स्वस्मिन्निति वासुः स चासौ देवश्च दीव्यत इति स्वप्रकाशः स वासुदेव इत्यर्थ : । अनेन तत्पदवाच्यम- भिहितम् । अधुना तत्पदलक्ष्यमाह-परममिति । अथवा पष्ठी राहोः शिर इतिवदौपचारिकी [ पृ. ५४ ] समत्त्वम् स्वरूपम् ॥ ९ ॥ १ । ३ । १० [ शांकरभाष्यम् ] सूक्ष्मतारतम्यक्रमेणेति । विषयमनोबुद्ध्यादिक्र- मेणेत्यर्थः । प्रत्यगात्मतयेति । न देशपरिच्छिन्नं फलं ब्रह्म किन्तु मोहव्य- वहितं मोहापगमे प्रत्यग्रूपेणावस्थानमिति तटूपेण साक्षात्कारः संपद्यते । यति तावच्छब्दः । यैरीति । आत्मग्रकाश्नाय विपयज्ञानायार्थैरिन्दिया- ण्यारब्धान्यतोऽर्था इन्द्रियेभ्यः परा: । बुद्धिरात्मेति केषांचितं तद्दूरीकर णायाह-बुद्धिशब्दवाच्यमिति । करणत्वादिन्द्रियबुद्धेर्भौतिकत्वं सिद्धम् । कारणत्वं च स्वबुद्ध्याहमुपलभ इत्यनुभवेन सिध्यति । ततो भूतावयवसंस्था- नेष्वेवार्थादिषुत्तरोत्तरं परापरत्वं कल्प्यं परमपुरुषार्थदिदर्शयिपया । नत्वर्था दीनां परत्वं प्रतिपिपादयिषितं प्रयोजनाभावाद्वाक्यभेदोपप्रसंगाञ्चेति । सुरनरतिर्यगादिबुद्धीनां विधारकत्वान्सान्त्यगमनादात्मोच्यते हैरण्यगर्भतत्त्वमित्यर्थः । बोधावोधान्मकमिति । ज्ञानक्रियाशक्त्त्त्यकमि त्यर्थः । अथवाधिकारिपुरुपाभिप्रायेण बोधात्मकत्वमव्यक्तम्याघः परिणाम उपाधिरपंचीकृतभूतात्मकस्तेन रूपेणावोधात्मकत्वं हिरण्यगर्भस्येत्यर्थः १० [ प्रकाशिका ] [ पृ. ५४ ] वशीकार्यत्वाय-वशीकरणाय । दुर्निग्र हत्वादिति । विषयसंनिधाविन्द्रियाणि निगृहीतुमशक्पानि भवन्त्यतोऽर्था- नामिन्द्रियेभ्यः परत्वम्। तदायत्तत्वात्-शरीरायत्तत्वात्। इन्द्रियादिवशीकरण- वदीश्वरवशीकरणं नेत्याह--तस्य च वशीकरणामिति । भाषितमित्यस्येत्थं हि तत्र भाप्यमित्यनेन संत्रन्ध ॥ १० ॥ १ । ३ । ११ [ शांकरभाष्यम् ] आरम्भवादं निराकरोति--अव्याकृतनामरूपसत त्वमिति । अव्याकृतयोर्नामरुपयो: सनत्वं स्वरूपमित्यर्थः । ननु सृष्टेः प्रागव्याकृतव्यतिरेकेणाभावात्कथं सर्वेषा कार्याणां कारणानां च सक्त्तिसमु- दायरूपमव्यक्तमिति चेत्प्रलये सर्वशक्तीनामवस्थानं वक्तव्यं शब्दार्थसंबन्ध-