पृष्ठम्:काठकोपनिषत्.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४५
१।३।३
काठकोपनिषद्भाष्यद्वये

बुद्धिं त्विति । अध्यवसायलक्षणां निश्चयस्वरूपाम् । [ पृ. १२] रशनया अश्वाकर्षकरज्ज्वा ॥ ३ ॥ १ । ३ । ४

[ शाङ्करभाष्यम्] गोचरानिति । गाव इन्द्रियाणि चरन्ति यत्रेति ते गोचरा विषयाः । औपाधिककर्तृत्वेऽन्वयव्यतिरेकौ शास्त्रं च प्रमाणमि- त्याह- न हि केवलस्येति । केवलस्य-उपाध्यपरिच्छिन्नस्य । एवं च सतीति । औपाधिककर्तृत्वे सतीत्यर्थः । नान्यथेति । यदि संसारित्वं स्व- भाव एव स्यात्तर्हि स्वाभाविकस्य तस्यानतिक्रमणीयत्वेन त्यागाभावादसं- सारिवैष्णवपदप्राप्तिनेत्यर्थः ॥ ४ ॥ १ । ३ । ५ [ शाङ्करभाष्यम् ] अविज्ञानवानिति । अत्राविज्ञानपदेन न ज्ञानसा- मान्याभावो गृह्यते किन्तु बुद्धिगतोऽविवेकरूपोऽतिशयः । अबुद्धिसारथे:- अविवेकसारथेः ॥ ५ ॥ १ । ३ । ६ [ शांकरभाष्यम्] [ पृ. ५३ ] समाहितचित्त इति । विषयस्मृति- युक्तचित्तनिग्रहे विषयविकल्पात्मकं मनो निगृहीतं भवतीति भावः । शक्यानीति । कर्तव्याकर्तव्ययोरिति शेषः ॥ ६ ॥ १ । ३ । ७ [ शांकरभाष्यम् ] पदमाप्नोतीति । चेतन इति शेषः । कैवल्यामिति । राजपुरप्रवेशस्थानीयमित्यर्थः । जन्ममरणादिलक्षणं कण्टकपाषाणाघुपप्लुत- देशतुल्यम् ॥ ७ ॥ [ प्रकाशिका ] [ पृ. ५३ ] विपरीतचिन्ताप्रवणत्वादिति । शास्र- विरुद्धविषयतत्परत्वादित्यर्थः । अविज्ञानवता न केवलं श्रेयोहानिरेव लभ्य- तेऽपित तस्य गहनसंसारप्राप्तिरित्याह--न केवलमिति ॥ ७ ॥ १ । ३ । ८ [ शांकरभाष्यम् ] न जायत इति । ’ यद्रत्वा न निवर्तन्ते ’ इति भगवदुक्त्तेः॥ ८ ॥

१ । ३ | ९

[ शांकरभाष्यम् ] आत्मस्वरूपस्य नित्याप्तत्वादाप्नोतीति कथमित्याह-- मुच्यत इति । प्रत्यक्परमात्मावरकाज्ञाननिवृत्तिरेवाप्नोतिपदेन लक्षणया