पृष्ठम्:काठकोपनिषत्.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।३।१ बालबोधिनी १४४ पप्रतिपत्यर्थे किंचिद्विव्रियते। तथाचाद्वैतामोदे । जीवेश्वरस्वरूपविषये चावच्छे* दवाद आभासवादः प्रतिबिम्बवादश्चेति पक्षाः संभवन्ति । तद्यथा-वाचस्पते- रवच्छिन्न आभासो वार्तिकस्य च । संक्षेपशारीरकृतः प्रतिबिम्बं तथेष्यते । इति । अवच्छेदोऽन्तःप्रवेश । तघुक्तोऽवच्छिन्नः । यथा जलेऽन्तःप्रविष्ट- माकाशं जलावच्छिन्नमित्युच्यते । अन्यसबन्धेनान्यत्र भासमानोऽर्थ आभासः । यथा जपाकुसुमसांनिध्यात्स्फटिके भासमानो रक्तिमा । अय- मेवोपहित इत्युच्यते । प्रतिबिम्बं प्रसिद्धम् । अवच्छेदवादिनां वाचस्पतिमि- श्राणां मतेऽज्ञानविषयीकृतं चैतन्यमीश्वरः । अज्ञानाश्रयीभूतं चैतन्यं जीवः आभासवादिनां वार्तिककाराणां मतेऽज्ञानोपहितमज्ञानतादात्म्यापन्नं चैत- न्यमीश्वर । अविद्याकार्यभूतबुद्ध्युपहितं बुद्वितादात्म्यापत्रं चैतन्यं जीवः । केचित्वाभासवादमेव स्वीकृत्याद्ज्ञानसमष्टयुपहितं चैतन्यमीश्वरः । अज्ञान- व्यष्टयुपहितं चैतन्यं जीवः । अज्ञानं च स्वरूपत एव नानाभूतामित्याहुः । प्रतिबिम्बवादिनां संक्षेपशारीरककाराणां मतेऽज्ञानप्रतिबिम्बितं चैतन्यमीश्वरः। बुद्धिप्रतिबिम्बितं चैतन्यं जीवः । विवरणकारास्त्वीश्वरविषये आभासवादं जीवविषये च प्रतिबिम्बवादं मन्वाना अज्ञानोपहितं बिम्पचैतन्यमीश्वरः । अन्तःकरणतत्संस्कारावाच्छिन्नाज्ञानप्रतिबिम्बितं चैतन्यं जीव इत्याहुः ॥१॥ १ । ३ । २ [शाङ्करभाष्यम्][पृ.५ १] परापरेब्रह्मणी इति । यथासंख्येन नान्वयः । कर्मविदाश्रयोऽपरं ब्रह्म । ब्रह्मविदाश्रयः परं ब्रह्मोति । एतयोरेव हीति । कर्मविदाश्रयस्यापरब्रह्मणो ब्रह्मविदाश्रयस्य परब्रह्मणश्चेत्युभयोर्त्र्क्षतं पिबन्ता- वत्यत्रापन्यास्सा यस्मात्कृतस्तस्मात्रान्यत्वाशङ्केत्यर्थः ॥ २ ॥ [ प्रकाशिका ] कानजन्तः शब्द इति । ’ लिटः कानज्वा ' पा. सू. ३ । २ । १०६ इति सूत्रविहितकानच्प्रत्ययान्तः । व्यत्ययेन शबिति। वयं शक्नुयामेत्यर्थः । अत्र शक्धातोः स्वादिगणान्तर्गतत्वाच्छब् व्यत्ययेन । तथात्मनेपदमपि व्यत्ययेन ॥ २ ॥ १ । ३ । ३ [ शाङ्करभाष्यम् ] तत्र-जीवात्मपरमात्मनोः । उपाधिकृतः उपाधि- परिच्छिन्न: । रथस्वामिनमिति । रथतादात्म्याभिमानिनमित्यर्थः । अन्त:- करणैक्येऽपि वृत्तिभेदकल्पनया बुद्धिमनसोः सारथिप्रग्रहत्वकल्पनेत्याह-