पृष्ठम्:काठकोपनिषत्.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४३ काठकोपनिषद्भष्यद्वये १।३।१ [प्रकाशिका] पूर्वापरसंगतिं वल्ल्योराह-क इत्था वेदेत्यादिना।[पृ.४९] संख्याया उत्तरावधिरिति । एकं दश शतं सहस्रमिति संख्याया दश- कृत्वो गणनेऽन्तिमं स्थानं परार्धमिति । ततः परं लौकिकगणनायां संख्याया उपयोगो न क्रियते तेन तदवधिरवसानमित्यर्थः । अयं मन्त्रो जीवपरमात्मपरो गृह्यते तन्न समीचीनं परमात्मनि कर्मफलभोक्तत्वासंभव- स्तथा गुहावाच्छिन्नत्वस्य सवेव्यापके ब्रह्मण्यसंभव इत्यादिकारणकलापाद- नेन मन्त्रेण बुद्धिजीवावेव ग्राह्यौ ततश्च कर्मफलोपभोगसाधनभूतायां बुद्धौ करणे कर्तृत्वलक्षणया पिबन्ताविति निर्देशः कथमप्युपपद्येतेत्याह--नन्विति। [ पृ. ५० ] समाधत्ते--एवमिति । प्रतिपन्नजातिमुपजीव्य– अङ्गीकृत- जात्यनुरोधात् । अङ्गीकृतजातीयव्यक्तिस्वीकारे केवलव्यक्तिज्ञानमेवापेक्ष्यते भिन्नजातीयव्यक्तिग्रहणे तु जातिव्यक्तीत्युभयज्ञानमपेक्ष्यते । एवं च प्रति- पन्नजातीयस्य ग्रहणे ज्ञानलाघवं भवति । तथा दर्शनादिति । अस्य गोर्द्धितीयेनार्थ इत्युक्त्ते गौरेवानीयते नाक्ष्वो न गर्दभो लोके । एवं च पूर्व- प्रतिपन्नगोत्वजातिविशिष्टव्यत्तेरेव ग्रहणं भवति लोके तद्वदत्रापीत्याह---- तथा चेति । जीवपरमात्मनोश्चेतनत्वेन सजातीयत्वम् । बुद्धेम्त्वचेतनत्वा द्विजातीयत्वम् । सर्वथाप्यसंभवादिति । तेन च लक्षणास्वीकारेऽपि न निर्वाहः । छायातपशब्दाभ्यां न तमःप्रकाशयोर्बोधनं किन्तु किंचिज्ज्ञत्व- सर्वज्ञत्वयोरतोऽयं जीवपरमात्मपरो मंत्र इत्याह-छायातपशब्दाभ्या- मिति । संनह्यते–प्रयत्यते । किंचेति । उपष्टम्भकं पार्थिवद्रव्यं तद्रत- गुरुत्ववति तैजसे सुवर्णे गुरु सुवर्णमिति यद्यपि व्यवहारस्तथाप्युपष्टम्भ- कपार्थिवद्रव्यं सुवर्ण चेत्युभे गुरुणी इति व्यवहारो न तद्वद्बुध्द्युपाधिकत्वेऽपि जीवप्रवेशस्य बुद्धिजीवौ गुहां प्रविष्टाविति व्यवहारो न भवतीत्यर्थः । प्रसङ्गादद्वैतिपक्षंं खण्डयति--अत एवेति [ पृ. ९ १ ] युज्यत इति । अविद्यान्तःकरणयोः प्रतिबिम्बोपधित्वं न संगच्छते । यतः प्रतिबिम्बै कूत्र संभवति तदाह-स्वच्छद्रव्येत्यादि । लोके देवदत्तस्य प्रतिबिम्बः कदोप- लभ्यते । यदा दर्पणादिस्वच्छद्रव्यप्रतिघातात्परावृत्ता देवदत्तस्य चाक्षुष- किरणास्तमेव पुनरुपलभन्ते तदा । एवं चाक्षुषद्रव्य एव प्रतिबिम्बसंभवः । चैतन्यं तु न चाक्षुषमतो न तत्र प्रतिबिम्बसंभवः । एवं च प्रतिबिम्बवादा संभवादवाच्छिन्नवाद एवावाशिष्टः । सोऽप्यनवच्छिन्ने परमात्मनि न संगच्छत इत्यर्थः । आञ्जस्यं-सारल्यम् । अवच्छिन्नप्रतिबिम्बाभासवादानां स्वरू