सामग्री पर जाएँ

पृष्ठम्:काठकोपनिषत्.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१|२|२ बालबोधिनी १३८ व्यवहारो न वस्तुत इत्यर्थः । अणु महद्वा यदस्तीत्यादिना । तस्मात्- निखिलस्य वस्तुजातस्यात्मनैव सत्वसंभवात् । नामरूपवस्तूपाधिकत्वा- दिति । अत्र वस्तुशब्देन कर्मोच्यते । ब्रह्मादिस्तम्बपर्यन्तस्येति । ब्रह्मा हिरण्यगर्भः । स्तम्बः तृणजातिविशेषः । यद्भक्षणेन गजा मोदन्ते । अत एव तेषां स्तम्बेरमा इति संज्ञा । दर्शनश्रवणेत्यादि । आत्मदर्श- नोद्देशेन ‘आत्मा वारे द्रष्टव्यः श्रोतव्य:’ इत्यादिश्रुत्या विहितं यच्छूवणं मननं विज्ञानं निदिध्यासनं तदात्मकं लिङ्गं साधनं यस्यास्ति । श्रवणादि- साधनसहित इत्यर्थः । इहामुत्रार्थफंलभोगविरागरूपां साधनसंपतिं दर्श- यति-दृष्टादृष्टेत्यादिना । दृष्टा ऐहिकाः । अदृष्टाः पारलौकिकाः । यदा चैवमिति । अकामत्वे सतीत्यर्थः । धातुशब्दस्य रूढार्थं परित्यज्य यौगि- कार्थं ग्राहयति-शरीरस्य धारणादिति । कर्मनिमित्तेति । कर्मनिमित्तौ वृद्धिक्षयौ शरीरस्य नात्मनः ॥ २० ॥ [प्रकाशिका] प्रत्यगात्मस्वरूपम्-जीवस्वरूपम् । स्वाव्याप्तवस्तुरहित इति । स्वेनाव्यातं यद्वस्तु तद्रहितः । सर्ववस्तुव्यापक इत्यर्थः । काकाक्षिन्या- येनेति । काकास्याक्षिगोलक एक एव । तत्तत्पार्श्वगतवस्तुदर्शनसमये तत्त- दक्षिस्थानसंनिहितो भवति ।व तद्वदेक एवात्मशब्द उभयत्र संबध्यते एकस्यान्वितस्य शब्दस्योभयत्रसंबन्धे दृष्टान्तमाह-मूलत इति । जैमिनीये चतुर्थाध्याये द्वितीयपादे तृतीयाधिकरणे छेदनस्य शाखाप्रयुक्ततासंज्ञके शाबरभाष्ये ’ शाखायां तत्प्रधानत्वादुपवेषेण विभागः स्याद्वैषम्यं तत्’ । ८ ’श्रुत्यपायाच्च ९ इति ’ सूत्रद्वयव्याख्यान एतद्विषयवाक्यमुक्तं-दर्श- पूर्णमासयोः सामाम्नायते ’ मूलतः शाखां परिवास्योपवेषं करोति ’ इति । तत्र संशयपूर्वपक्षादिप्रदर्शनसमयेऽस्य वाक्यस्यैवमर्थः कृत ’वत्सापाकर- णार्थं मूलतः शाखा छेदनीया ततः कपालोपधानार्थ छिन्नायाः शाखाया मूल एवोपवेषः कर्तव्योऽर्थाच्छिन्नस्य तस्य भागस्य पुनः प्रादेशपरिमितं मूलभागं छित्वोपवेषः कर्तव्यः । एवं च द्विवारं छेदनं, एतावतेदं सिद्धं यन्मूलत इति पदं पूर्वं परिवासनेन साकं संबध्यते ततस्तदेव परिवासन- संबद्धं पुनर्मुलभाग उपवेषः कर्तव्य ति द्योतनार्थमुपवेषेण संबध्यते । विषयवाक्ये परिवास्येत्यस्य छित्त्वेत्यर्थः । उपवेषो नाम वत्सापकरणार्थ छिन्नायाः शाखायाः प्रादेशपरिमितः काष्ठभागः । परिवासनान्वितस्य-छेद- नान्वितस्य । यथा दृष्टान्ते परिवासनान्वितस्य मूलत इति पदस्योपवेषं