पृष्ठम्:काठकोपनिषत्.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३९ काठकोपनिषद्भाप्यद्वये १।१।२० करोतीत्यनेनान्वयस्तथा दार्ष्ठन्तिकेऽप्यात्मशब्देनान्वितस्यास्य जन्तोरि- त्यस्य गुहायामित्यनेनाप्यन्वयः । उभयत्रान्वये इति । अस्य जन्तेरि- त्यस्यात्मेत्यनेन गुहायामित्यनेन चान्वये । [ पृ. ४४] अनुपपन्नतयेति । न जायत इति जन्तुरिति च विरोधादनुपपत्तिः । प्रत्यक्षादिसंनिधापि- तेति । इदमस्तु संनिकृष्टे समीपतरवर्ति चैतदो रूपम् । अदसस्तु विप्र- कृष्टे तदिति परोक्षे विजानीयादित्युत्तेरस्येत्यस्य प्रत्यक्षादिसंनिधापित- देहपरत्वम् । उत्तरपक्षं शङ्कते--न चेति । उत्तरसन्दर्भप्रतिपाद्यं-उत्तरग्रन्थ- प्रतिपाद्यम् । चेतनपर्यायतयेति । प्राणी तु चेतन इत्यादिपूर्वोक्तकोश वाक्यप्रामाण्याज्जन्तूशब्दश्चेतनवाची । पररीत्येति । अद्वैतवादिमतवदि- त्यर्थः । अक्रतुरित्यत्र क्रतुपदेन संकल्पवाचिना संकल्पयुक्तमर्थात्कामनायुक्तं कर्म लक्ष्यते तदाह-काम्यकर्मादिरहित इति । अस्मिन्नर्थे श्रीभाष्यकृतां रामानुजाचार्याणां संमतिमाह-घुभ्वाघधिकरण इति । [पृ.४५ ] द्विती- यान्तपाठे ’ अत्रतुं इतीशमित्यस्य विशेषणं तदनुकूलमर्थमाह-कर्म कृतोत्कर्षोपकर्षरहितमिति । जीववदीश्वरे कर्मकृतोत्कर्षापकर्षौं नेत्यर्थः २० १ । २ । २१ [ शांकरभाष्यम्] [ पृ. ४५ ] कामराहित्यस्यान्वयव्यातिरेकाभ्यां हेतुत्वं साधयति--अन्यथेत्यादि । अन्यथा—कामनाराहित्याभावे । दुर्वि- ज्ञेयत्वे विरुद्धधर्मवत्वमेव हेतुरित्याह--यस्मादिति । अचल इति । जाग्र- त्स्वमसाक्षित्त्वेन कूटस्थः । दूरं व्रजतीति । मन आदीन्द्रियेषु विषयदेशं गच्छत्स्वयमपि प्रतिबिम्बरूपेण दूरं गच्छतीत्यर्थः । शयान इति । उपर- तेष्विान्द्रयेषु विशेषविज्ञानाभाव एव शयनम् । विज्ञप्तिसामान्यरूपेण स्थितिरेव सर्वतो गमनं च । विश्वरूप इवेति । विक्ष्वरूपो मणिर्यथा द्रष्ट्ट- भेदान्नानारूपोऽवभासते तद्वदात्मा । चिन्तामणिवदिति । चिन्तामणिश्चि- न्तितानुसारं नानाविधो भासते न स्वरूपतस्तथात्माप्युपाधिवशात्स्थितिग- तिवत्परस्परविरूद्धधर्मतया भासते न स्वरूपत इत्यर्थः। अत:-उपाध्य विवेकात् । इहैव— देह एव ॥ २१ ॥ [ प्रकाशिका ] इतरत्र लौकिकपदार्थेषु । मदामदमिति । मदो हर्षः । अमदोऽमर्षः । तादृशविरुद्धधर्मयुक्तं, अर्श आद्यच् । अध्यासद्वारा तघुक्त- त्वमित्याह-हर्षामर्षरूपविरुद्धधर्माध्यस्तमिति ॥ २१ ॥