पृष्ठम्:काठकोपनिषत्.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३७ काठकोपनिषद्भाष्यद्वये १।२।१८ लजगत्संहर्तमुखेनेति । स्वेच्छाधीनशरीरपरिग्रह इति। नतु पुण्यपापकर्माधीन- शरीरपरिग्रह इति भावः । किं न स्यादिति । प्रवाहपतितन्यायादित्यर्थः।द्विपदां- नराणाम्। आरण्यकं-उपनिषद्रागः।[पृ.४ २]कृतान्तः-सिद्धान्तःकृतलक्षणै:- सुलक्षणैः । प्रतिष्ठापितंवतेति । इदं बादरायणेनेत्यस्य विशेषणम् । यथा- गमं-यथाशास्त्रं, यथान्यायं—युक्तिपूर्वकम् । हेतुभिरिति । कल्पितहेतुघटि- तानुमानादि प्रदर्श्य कपिलादिशास्त्रखंडनं न कर्तव्यमित्यर्थः । एतच्छास्त्रं- पांचरात्रम् । तत्पादे—शारीरमीमांसाया द्वितीयाध्यायद्वितीयपादे तर्काख्ये । न निराक्रियत इति । तुल्यन्यायादिति भाव । विप्रलिप्सा–विप्रलब्धु मिच्छा वञ्चनम् । समानामिति । सर्वेषां कपिलादिमतानां परमरहस्यं य- न्नारायण एव परमात्मेति तत्सर्वत्र समानं पांचरात्रेणातो बादरायणसंमतमेव तन्न तत्खण्डनार्थं बादरायणस्य प्रयासः किन्तु येऽप्रज्ञाः कपिलादिशास्त्रं शैवाद्यागमं च पठन्ति तेषां तत्तदागमप्रणेतृरहस्यानभिज्ञत्वादापातप्रतिपन्ने सहसैव बुद्धिमारूढे शिवादितत्वे श्रद्धा जायते तत्तेषामापातगृहीतार्थानुया- यित्वं निराकर्तुं बादरायणस्य प्रयास इति भावः । [ पृ. ४३ ] एवं च कपिलाद्यागमैकदेशार्थ आपातप्रतिपन्नोऽसंगत । पांचरात्रस्य तु स तथा प्र- तिपन्नोऽपि प्रामाणिक एवेत्याह-पंचरात्रशास्त्रं त्वित्यादिना । वेदवेि- रुद्धेति । परमेश्वर एव निमित्तमुपादानं चोभयविधं कारणं नैयायिकोक्तो निमित्तोपादानकारणभेदस्त वेदविरुद्धः ॥ १८ ॥ १९ ॥ १ । २ । १९ [ शांकरभाष्यम्] शरीरमात्रात्मदृष्टिरिति । शरीरमेवात्मेति दृष्टि- र्यस्य नतु सत्यात्मदृष्टिरित्यर्थ । [ पृ. ४० ] श्रुतिप्रामाण्यादिति । इति नु कामयमान इति श्रुतिरनात्मज्ञस्य संसारं बोधयति । तथा ’ अथा- कामयमान' इति श्रुतिरात्मज्ञस्य तदभावं च बोधयति । न्यायादिति । यदज्ञानाद्या प्रवृत्तिः सा तज्ज्ञानान्न भवतीति लौकिकन्यायात् । तदुक्तं विवेकी सर्वदा मुक्तः कुर्वतो नास्ति कर्तृता । अलेपवादमाश्रित्य श्रीकृष्ण- जननकौ यथा ॥ १९ ॥

१ । २ । २०

[ शांकरभाष्यम् ] [ पृ. ४३ ] कामवर्जितत्वादिसाधनाविधानार्थ- मुत्तरवाक्यमवतारयति-कथमिति । एकस्यैव वस्तुनः परस्परविरुद्धे अणी- यस्त्वमहत्वे कथमिति तव्घुत्पादयति-अणुत्वाद्यध्यासाधिष्ठानत्वादणुत्वादि